भाष्यरत्नप्रभाव्याख्या
सर्ववेदान्तप्रत्ययाधिकरणम्
उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं 'एकं वा संयोगरूपचोदनाख्याविशेषात्' इति । तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा । तस्या अविशेषमाह -
यथैकस्मिन्निति ।
एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः ।
यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याऽभिन्नेत्याह -
एवं पञ्चाग्नीति ।
पूर्वपक्षहेतून्निराचष्टे -
ये त्विति ।
काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदेऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदोऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः, शाखाभेदे पुनरुक्तिरसिद्धा, निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखानुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति । एवं समाप्तिवचनभेदोऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः ॥१॥
तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धेः पुनरुक्तिरित्यत आह -
इहापीति ।
रूपस्योत्पत्तिशिष्टत्वं विशेषः ।
पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवदित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे -
स्यादित्यादिना ।
अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धोऽपि नास्तीति मन्तव्यम् ।
ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह -
न चात्रेति ।
अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह -
आवापेति ।
छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति -
नैष इत्यादिना ।
अङ्गीकारं त्यजति -
पठ्यतेऽपीति ।
इतोऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयोऽग्नये हरन्तीत्यर्थः ।
ननु छान्दोग्येऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह -
वाजसनेयिनस्त्विति ।
षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः ।
सविशेषस्य षष्ठाग्नेरूपास्यत्वेऽपि न रूपभेद इत्याह -
अथापीति ।
द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः ।
छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वाऽनुपसंहारेऽपि न विद्याभेद इत्याह -
न चावापेति ॥२॥
एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषोऽपि न भेदक इत्याह -
स्वाध्यायस्येति ।
गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः ।
अधिकाराच्चेति व्याचष्टे -
नैतदिति ।
एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः ।
ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते -
नन्विति ।
सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत । नच संबध्यत इति विद्याभेद इत्यर्थः ।
प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति -
नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः । सवा होमाः । अथर्वणैः स्वसूत्रे उदित एकोऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः ॥३॥
किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः -
दर्शयति चेति ।
सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह -
तथेति ।
किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह -
तथा महद्भयमित्यादिना ।
एष नर एतस्मिन्नद्वयेऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः ।
प्रादेशमात्रमुपास्त इति सिद्धवदुपादानं वैश्वानरविद्यैक्यं दर्शयतीत्याह -
तथेति ।
किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति । ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह -
तथेति ।
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः ॥४॥