भाष्यरत्नप्रभाव्याख्या
वेधाद्यधिकरणम्
वेधाद्यर्थभेदात् ।
देवतामभिचारकर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः । हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः । उच्चैः श्रवाः श्वेतोऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलोऽसीत्यर्थः । नोऽस्माकं शं सुखकरो भवत्वित्यर्थः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना ।
मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह -
किमिति ।
फलं पूर्ववत् ।
ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते -
नन्वेषामिति ।
मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते -
बाढमिति ।
तथा च दृष्टान्तसंगतिः ।
सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह -
न हीति ।
अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः । नञ्पाठेत्वकस्माद्धेतुं विनाऽसावर्थो नाश्रयितुं नहि युक्त इत्यर्थः ।
ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते -
नन्विति ।
पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह -
कथं चेति ।
मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह -
नैष इति ।
उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह -
दृष्टश्चेति ।
पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य कोशत्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः । तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः ।
तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह -
वाजपेय इति ।
'ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत' इति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः । यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, तथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् । न च साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवेऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः । न चैवं सति कुण्डपायिसत्रेऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् । न च पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् । पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च । तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् ।
अस्ति च विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफलेऽपि विनियोगात् । तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति -
नैषामित्यादिना ।
विद्यासु हृदयादिसंबन्धेऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः ।
'देव सवितः प्रसुव' इति प्रदक्षिणतोऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे 'सावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोति' इति वाक्याद्वाजपेये कर्मविशेषे संबन्धोऽस्य मन्त्रस्येत्याह -
तद्विशेषेति ।
उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति -
एवमन्येषामिति ।
प्रमाणान्तरं प्रकरणादिकम् ।
ननु लिङ्गादिभिरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगोऽस्त्वविरोधादित्युक्तं, तत्राह -
दुर्बलो हीति ।
समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः । अयमाशयः- एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वेऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते 'यथा खादिरो यूपो भवति' 'खादिरं वीर्यकामस्य यूपं कुर्यात्' इति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः । यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् । यथा 'कदाचन स्तरीरसि' इत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते । लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया, तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् । तथा लिङ्गेन वाक्यं बाध्यं यथा 'स्योऽनं ते सदनं करोमि घृतस्य धारया सुवेशं कल्पयामि', 'तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः' इति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्नेऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरोडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् । न च सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते । तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः । प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् । तथा प्रकरणेन संनिधिर्बाध्यः । यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनःशेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात्तथा संनिधिना समाख्या बाध्यते । तथा हि पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ 'शुन्धध्वं दैव्याय कर्मणे' इति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते । पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वेऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति । एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः । तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् ।
तथा कर्मणामिति ।
कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः । अपि चेत्युक्तार्थम् ।
ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह -
अरण्येति ।
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम् ॥२५॥