अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वेधाद्यधिकरणम्

वेधा­द्य­र्थ­भे­दात् ।

देव­ता­म­भि­चा­र­कर्ता प्रार्थयते -
सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः । हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्व­र्त­ये­त्यर्थः । उच्चैः श्रवाः श्वेतोऽश्वो यस्येन्द्रस्य स त्वं हरि­त­म­णि­व­न्नी­लोऽ­सी­त्यर्थः । नोऽस्माकं शं सुखकरो भवत्वित्यर्थः । अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मो­प­य­न्त्य­नु­ति­ष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमे­णा­मृ­त­त्व­मा­प्नु­व­न्तीति योजना ।

मन्त्रादिषु तत्त­दु­प­नि­ष­द्वि­द्या­शे­षत्वे प्रमाणभावाभ्यां संशयमाह -
किमिति ।
फलं पूर्ववत् ।

ननु तेषां शेषत्वे माना­भा­वा­न्नो­प­सं­हार इति शङ्कते -
नन्वेषामिति ।

मन्त्रा­द­य­स्त­त्त­द्वि­द्या­शेषाः फल­व­द्वि­द्या­सं­नि­हि­त­त्वा­त्तै­त्ति­री­य­क­ग­त­पु­रु­ष­य­ज्ञ­व­दिति समाधत्ते -
बाढमिति ।
तथा च दृष्टान्तसंगतिः ।

सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह -
न हीति ।
अफलमन्त्रादीनां फल­व­च्छे­ष­त्व­बो­धनं संनि­धे­र­र्थ­वत्त्वं तत्संभवे सत्य­क­स्मा­द­र्थ­शू­न्य­त्वे­नासौ संनि­धि­रा­श्र­यितुं नहि युक्त इत्यर्थः । नञ्पा­ठे­त्व­क­स्मा­द्धेतुं विनाऽसावर्थो नाश्रयितुं नहि युक्त इत्यर्थः ।

ननु मन्त्राणां विद्या­स­म­वे­ता­र्थ­प्र­का­श­न­सा­म­र्थ्या­भा­वान्न विद्या­शे­ष­त्व­मिति शङ्कते -
नन्विति ।

पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्नि­ष्टो­मा­देश्च तत्तद्वाक्येन स्वर्गा­द्य­र्थ­त्व­मतो न विद्या­र्थ­त्व­मि­त्याह -
कथं चेति ।

मन्त्राणां विद्या­स­म­वे­त­हृ­द­य­ना­ड्या­दि­प्र­का­श­क­त्व­म­स्ती­त्याह -
नैष इति ।

उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह -
दृष्टश्चेति ।
पुत्रस्य दीर्घा­यु­ष्यार्थं छान्दोग्ये त्रैलोक्यस्य कोश­त्वे­नो­पा­स्ति­रुक्ता तत्र पितुरयं प्रार्थ­ना­मन्त्रः । तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः ।

तत्त­द्वा­क्ये­ना­न्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह -
वाजपेय इति ।
'ब्रह्म­व­र्च­स­कामो बृहस्पतिसवेन यजेत' इति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य 'वाज­पे­ये­नेष्ट्वा बृहस्पतिसवेन यजेत' इति वाज­पे­य­प्र­क­र­ण­प्र­क­र­णस्थ वाक्येन वाज­पे­यो­त्त­रा­ङ्ग­तया विनियोगवदविरोध इत्यर्थः । यद्यप्येकेन वाक्येन प्रक­र­णा­न्त­र­स्थ­बृ­ह­स्प­ति­स­वस्य प्रत्य­भि­ज्ञा­न­म­ङ्ग­त्व­वि­धानं च कर्तुमयुक्तं वाक्य­भे­द­प्र­स­ङ्गा­दतो मासा­ग्नि­हो­त्र­व­त्क­र्मा­न्त­र­मेव बृह­स्प­ति­स­वा­ख्य­म­ङ्ग­तया विधीयत इति न विनियुक्तस्य विनियोग इति भट्ट­गु­रु­त­न्त्र­द्व­य­सिद्धं, तथापि यथा नित्या­ग्नि­हो­त्र­स्या­श्व­मे­ध­प्र­क­रणे वाग्यतस्यैतां रात्रि­म­ग्नि­होत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्श­पू­र्ण­मा­स­वि­कृ­ती­ष्टा­वा­ज्य­भागौ यज­ती­त्ये­क­स्मि­न्वाक्ये प्रकृ­ति­स्था­ज्य­भा­गयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्ये­ना­ङ्ग­ता­वि­धानं किं न स्यात् । न च साध्य­भा­वा­र्थ­वि­धा­य­का­ख्या­त­प­र­तन्त्रं नामपदं न सिद्ध­क­र्म­प्र­त्य­भि­ज्ञा­क्ष­म­मिति वाच्यं, सिद्ध­स्या­प्य­ङ्ग­तया पुनः साध्य­त्व­सं­भ­वेऽ­न्य­था­सि­द्धा­ख्या­त­स्यैव प्रसि­द्धा­र्थ­क­ना­म­पा­र­त­न्त्र्यो­प­पत्तेः । न चैवं सति कुण्ड­पा­यि­स­त्रेऽ­प्य­ङ्ग­त्वेन नित्या­ग्नि­हो­त्र­स्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् । न च पूर्व­त­न्त्र­वि­रोधः उत्तरतन्त्रस्य बलीयस्त्वात् । पूर्वतन्त्रस्य स्वत­न्त्र­प­र­त­न्त्र­भा­व­ना­भेदे तात्पर्याच्च । तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भग­व­त्पा­द­ता­त्प­र्यम् ।

अस्ति च विनियुक्तस्य विनियोगे सर्व­सं­म­त­मु­दा­ह­रणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफलेऽपि विनियोगात् । तथा मन्त्र­क­र्म­णा­म­न्यत्र विनियुक्तानां विद्या­शे­ष­त्व­मिति प्राप्ते सिद्धान्तयति -
नैषामित्यादिना ।
विद्यासु हृद­या­दि­सं­ब­न्धेऽपि वेधा­द्य­र्था­ना­म­सं­ब­न्धा­त्कृ­त्स्न­म­न्त्रा­र्था­ना­म­भि­चा­रा­दि­सं­ब­न्ध­लि­ङ्गेन संनि­धे­र्ब­ली­य­सा­भि­चा­रा­दा­वेव मन्त्राणां विनियोग इत्यर्थः ।

'देव सवितः प्रसुव' इति प्रद­क्षि­ण­तोऽग्निं पर्युक्षेदिति वाक्या­द­ग्नि­प­र्यु­क्षणे 'सावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोति' इति वाक्याद्वाजपेये कर्मविशेषे संबन्धोऽस्य मन्त्रस्येत्याह -
तद्विशेषेति ।

उक्तन्यायं श्वेताश्व इत्या­दि­ष्व­ति­दि­शति -
एवमन्येषामिति ।
प्रमाणान्तरं प्रकरणादिकम् ।

ननु लिङ्गा­दि­भि­र­न्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनि­यो­गोऽ­स्त्व­वि­रो­धा­दि­त्युक्तं, तत्राह -
दुर्बलो हीति ।
समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थ­वि­प्र­क­र्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृ­त्ते­रि­त्यर्थः । अयमाशयः- एकत्र विनियुक्तस्य निरा­का­ङ्क्ष­त्वा­द­न्यत्र विनियोगो विरुद्ध एव परन्तु विनि­यो­ज­क­प्र­मा­णयोः सम­ब­ल­त्वेऽ­न्य­त­र­वि­नि­यो­ग­त्या­गा­यो­गा­द­ग­त्या­का­ङ्क्षो­त्पा­द­नेन विनि­यु­क्त­वि­नि­योगः स्वीक्रियते 'यथा खादिरो यूपो भवति' 'खादिरं वीर्यकामस्य यूपं कुर्यात्' इति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः । यत्र तु प्रमा­ण­यो­र­तु­ल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्ब­ल­वि­नि­यो­ग­बा­धात् । यथा 'कदाचन स्तरीरसि' इत्यस्या ऋच ऐन्द्र्या गार्ह­प­त्य­मु­प­ति­ष्ठत इति तृती­या­वि­भ­क्ति­श्रु­त्या­न्य­नि­र­पे­क्ष­तया गार्ह­प­त्यो­प­स्था­न­शे­ष­त्व­बो­धि­क­ये­न्द्र­प्र­का­श­न­सा­मा­र्थ्य­रू­प­लि­ङ्ग­प्रा­प्त­मि­न्द्र­शे­षत्वं बाध्यते । लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्वि­न्द्र­प्र­का­श­न­मात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया, तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थ­बो­ध­क­श्रुत्या बाध्यम् । तथा लिङ्गेन वाक्यं बाध्यं यथा 'स्योऽनं ते सदनं करोमि घृतस्य धारया सुवेशं कल्पयामि', 'तस्मि­न्सी­दा­मृते प्रतितिष्ठ व्रीहीणां मेध सुम­न­स्य­मानः' इति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्र­का­श­न­सा­म­र्थ्य­लि­ङ्गेन श्रुतिद्वारा विनियोगे सति प्रती­त­मे­क­वा­क्यत्वं बाध्यते, तस्य कृत्स्नेऽपि मन्त्रे सद­न­क­र­ण­प्र­का­श­न­सा­मर्थ्यं पुरो­डा­शा­सा­द­न­प्र­का­श­न­सा­मर्थ्यं च लिङ्गं कल्पयित्वा श्रुति­क­ल्प­न­यो­भ­यत्र कृत्स्न­म­न्त्र­वि­नि­यो­ग­बो­धने द्वाभ्यां लिङ्ग­श्रु­तिभ्यां व्यवधानेन श्रुत्ये­क­व्य­व­हि­त­कॢ­प्त­लि­ङ्गा­द्दु­र्ब­ल­त्वात् । न च सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते । तथा वाक्येन प्रकरणं बाध्यं यथा साह्न­प्र­क­र­णा­म्ना­त­द्वा­द­शो­प­सदां द्वाद­शा­ही­न­स्येति वाक्ये­ना­ही­ना­ङ्गत्व बोधकेन प्रक­र­ण­प्रा­प्त­सा­ह्ना­ङ्ग­त्व­बा­धा­दु­त्कर्षः । प्रधा­न­स्या­ङ्गा­का­ङ्क्षा­रूपं प्रकरणं तस्या­ङ्ग­प्र­धा­न­वा­क्यै­क­वा­क्य­ता­सा­म­र्थ्य­श्रु­तिभिः कल्प्यमानाभिः स्वार्थ­वि­नि­यो­ग­प्र­मितौ व्यव­धा­ने­ना­ङ्ग­सा­म­र्थ्य­श्रु­त्यो­र्द्वयोः कल्प­क­वा­क्या­द्दु­र्ब­ल­त्वात् । तथा प्रकरणेन संनिधिर्बाध्यः । यथा राजसूयप्रकरणेन तद­न्त­र्ग­ता­भि­षे­च­नी­या­ख्य­सो­म­या­ग­वि­शे­ष­सं­नि­धि­पा­ठ­प्राप्तं शुनः­शे­पो­पा­ख्या­ना­दे­र­भि­षे­च­नी­य­शे­षत्वं बाधित्वा कृत्स्न­रा­ज­सू­य­शे­ष­त्व­मा­पा­दितं संनिधेः प्रक­र­णा­दि­क­ल्प­क­त्वेन कॢप्त­प्र­क­र­णा­द्दु­र्ब­ल­त्वा­त्तथा संनिधिना समाख्या बाध्यते । तथा हि पौरो­डा­शि­क­स­मा­ख्याके काण्डे आग्ने­य­पु­रो­डा­शा­दि­क­र्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधि­प­यो­रू­प­सा­न्ना­य्य­स­न्निधौ 'शुन्धध्वं दैव्याय कर्मणे' इति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरो­डा­श­पा­त्र­शु­न्ध­न­शे­षत्वं प्राप्तं संनिधिना बाधित्वा सान्ना­य्य­पा­त्र­शु­न्ध­न­शे­ष­त्व­मा­पा­द्यते । पुरो­डा­श­सं­ब­न्धि­काण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डा­न्त­र्ग­त­म­न्त्रस्य पुरो­डा­श­सं­ब­न्ध­सा­मा­न्य­बो­ध­क­त्वेऽपि शेष­शे­षि­भा­व­रू­प­वि­नि­यो­ग­बो­ध­कत्वे संनि­ध्या­द्य­पे­क्ष­त्वेन दुर्बलत्वादिति । एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुति­लि­ङ्ग­सू­त्रार्थः । तस्मा­ल्लि­ङ्गा­दि­ना­न्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् ।

तथा कर्मणामिति ।
कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चि­न्ना­स्ती­त्यर्थः । अपि चेत्युक्तार्थम् ।

ननु तर्हि वेधा­दि­वा­क्या­ना­मु­प­नि­षद्भिः सह पाठस्य का गतिस्तामाह -
अरण्येति ।
तस्मा­द्वे­धा­दि­म­न्त्र­क­र्मणां विद्या­स्व­नु­प­सं­हार इति सिद्धम् ॥२५॥