भाष्यरत्नप्रभाव्याख्या
अपशूद्राधिकरणम्
शुगस्यसूच्यते हि । पूर्वेणास्य दृष्टान्तसङ्गतिमाह
यथेति ।
पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः । अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्यायेऽन्तर्भाव इति मन्तव्यम् । पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् ।
अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकरोति न वेति सम्भवासम्भवाभ्यां सन्देहे पूर्वपक्षमाह
तत्र शूद्रस्यापीत्यादिना ।
तस्मादनग्नित्वादनवल्कृप्तोऽसमर्थः ।
विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह
भवतिचेति ।
जानश्रुतिः किल षट्शतानि गवां रथं च रैक्वाय गुरवे निवेद्य मां शिक्षयेत्युवाच । ततो रैक्वो विधुरः कन्यार्थी सन्निदमुवाच । अहेति निपातः खेदार्थः । हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः ।
अर्थित्वादिसम्भवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह
तस्मादिति ।
सूत्राद्बहिरेव सिद्धान्तयति
न शूद्रस्याधिकार इत्यादिना ।
आपाततो विदितो वेदार्थो येन तस्येत्यर्थः । अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यम् , तदभावाच्छूद्रस्यार्थित्वादिसम्भवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः । यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारेऽध्ययनविधिवैयर्थ्यापातात् । अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः ।
अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात् , यज्ञपदं वेदार्थोपलक्षणार्थमित्याह
न्यायस्य साधारणत्वादिति ।
तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः ।
पूर्वोक्तं लिङ्गं दूषयति
यदिति ।
असामर्थ्यन्यायेनार्थित्वादिसम्भवन्यायस्य निरस्तत्वादित्यर्थः ।
ननु 'निषादस्थपतिं याजयेत्' इत्यत्राध्ययनाभावोऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारोऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति
काममिति ।
तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः ।
वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दोऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासम्भवादिति मत्वाङ्गीकारं त्यजति
अर्थवादेति ।
तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोऽर्थ इत्याशङ्क्य सूत्रेणार्थमाह
शक्यते चेत्यादिना ।
जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयोऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसोऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितम् , तत्त्वां धक्ष्यति न गच्छेति । तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम् , अरे, सयुग्वानं युग्वा गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ । रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः । अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैक्वं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः । कमु अरे इति पदच्छेदः । उशब्दोऽप्यर्थः । तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः । श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः । तदाद्रवणात्तया शुचा आद्रवणात् । शूद्रः शोकं प्राप्तवान् । शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः । शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥ ३४ ॥
शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह
क्षत्रियत्वेति ।
संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते । शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः ।
नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह
चैत्ररथित्वं चेति ।
एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः । अभिप्रतारिणोऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते । राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।
नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वम् , तावता कथं क्षत्रियत्वम् , तत्राह
तस्मादिति ।
चित्ररथादित्यर्थः । क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणमन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥ ३५ ॥
अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् । तत्र लिङ्गान्तरमाह
संस्कारेति ।
उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् । इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते । भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते । तं शिष्यमाचार्य उपनीतवानित्यर्थः ।
नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह
अधीति ।
उपदिशेति यावत् । ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षडृषयस्तमुपगता इत्यर्थः ।
ननु वैश्वानरविद्यायामृषीन् राजाऽनुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह
तान्हेति ।
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते । हीनवर्णेनोत्तमवर्णाऽनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः । एकजातिरनुपनीतः । पातकमभक्ष्यभक्षणकृतम् ॥ ३६ ॥
सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत् , किङ्गोत्रोऽहमिति । तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति । ततः स जाबालो गौतममागत्य तेन किङ्गोत्रोऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितम् , उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालोऽस्मीति ब्रूहीति । अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः । अब्राह्मण एतत्सत्यं विविच्य वक्तुम् , नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह
तदभावेति ॥ ३७ ॥
स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह
श्रवणेति ।
अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्रद्वयपूरणं प्रायश्चित्तं कार्यमित्यर्थः । पद्यु पादयुक्तं सञ्चरिष्णुरूपमिति यावत् । भवति च । स्मृतिरिति शेषः । मतिर्वेदार्थज्ञानम् । दानं नित्यं निषिध्यते शूद्रस्य । नैमित्तिकं तु दानमस्त्येव ।
यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह
येषामिति ।
सिद्धानां सिद्धेर्दुरपह्नवत्वेऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह
श्रावयेदिति ॥ ३८ ॥