अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

विकल्पाधिकरणम्

विकल्पः ।

विद्यानां स्वरू­प­मु­क्त्वा­नु­ष्ठा­न­प्र­का­रोऽत्र निरूप्यत इत्यु­प­जी­व्य­त्व­सं­ग­ति­माह -
स्थित इति ।

विद्या­स्त्रि­विधाः अह­ङ्ग्र­हा­स्त­टस्था अङ्गा­श्रि­ता­श्चेति । तत्रा­ह­ङ्ग्र­ह­वि­द्यासु याथा­का­म्य­वि­क­ल्प­यो­र्वि­द्या­ना­ना­त्व­सा­म्या­त्सं­श­य­माह -
किमिति ।
पूर्वपक्षे यथे­च्छ­म­नु­ष्ठा­न­मि­त्य­नि­यमः सिद्धान्ते विक­ल्पे­ना­नु­ष्ठा­न­मिति नियम इति फलभेदः ।

तत्रानियमं साधयति -
तत्र स्थित­त्वा­दि­त्या­दिना ।
एक­पु­रो­डा­श­फ­ल­त्वा­द्यथा व्रीहि­य­व­यो­र्वि­क­ल्प­स्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् । न च फल­भू­य­स्त्वा­र्थिनः काम्य­क­र्म­स­मु­च्च­योऽपि दृष्ट इति वाच्यम्, ईश्व­र­सा­क्षा­त्का­रा­त्परं फल­भे­देऽ­प्या­सा­म­ह­ङ्ग्र­हो­पा­स्तीनां साक्षा­त्का­रा­त्म­क­फ­लस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्या­भा­वा­च्चि­त्त­वि­क्षे­प­क­तया तद्वि­घा­त­क­त्वा­च्चेति सिद्धा­न्त­भा­ष्यार्थः ।

मास्तु साक्षात्कार इत्यत आह -
साक्षा­त्क­र­ण­साध्यं चेति ।
यस्य पुंसः, अद्धा ईश्वरोऽहमिति साक्षात्कारः स्याद्वि­चि­कित्सा च नास्ति अहमीश्वरो न वेति तस्यै­वे­श्व­र­प्रा­प्ति­रि­त्यर्थः । जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवा­न्प्रा­प्नो­तीति श्रुत्य­न्त­रार्थः ।

अह­ङ्ग्र­हा­णा­म­नु­ष्ठा­न­प्र­का­र­मु­प­सं­ह­रति -
तस्मादिति ॥५९॥