अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

वैश्वानराधिकरणम्

वैश्वानरः । छान्दो­ग्य­मु­दा­ह­रति
को न इति ।
प्राची­न­शा­ल­स­त्य­य­ज्ञे­न्द्र­द्यु­म्न­ज­न­बु­डिला मिलित्वा मीमांसां चक्रुः 'को न आत्मा किं ब्रह्म' इति । आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् ।

ते पञ्चापि निश्च­या­र्थ­मु­द्दा­ल­क­मा­जग्मुः । सोऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः
आत्मानमिति ।

अध्येषि स्मरसि तमेव नो ब्रूहीति । राजा तु तेषां भ्रान्ति­नि­रा­सार्थं तान्प्र­त्ये­क­म­पृ­च्छत् 'कं त्वमा­त्मा­न­मु­पाःसे' इति । ते च प्राचीनशालादयः क्रमेण प्रत्ये­क­मू­चुः­दि­व­मे­वाहं वैश्वानरं वेद्मि । आदित्यमेवाहं वेद्मि । वायुमेव । आकाशमेव । अप एव । पृथिवीमेवाहं वेद्मीति । ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुते­ज­स्त्व­वि­श्व­रू­प­त्व­पृ­थ­ग्व­र्त्मा­त्म­त्व­ब­हु­ल­त्व­र­यि­त्व­प्र­ति­ष्ठा­त्व­गु­णा­न्वि­धाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वा­न­र­स्या­ङ्गे­ष्वेव प्रत्येकं वैश्वा­न­र­त्व­दृ­ष्टयो भवेयुस्तदा क्रमेण मूर्ध­पा­ता­न्ध­त्व­प्रा­णो­त्क्र­म­ण­दे­ह­वि­शी­र्ण­त्व­ब­स्ति­भे­द­पा­द­शोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा, सुतेजस्त्वगुणको द्युलो­कोऽ­स्या­त्मनो वैश्वानरस्य मूर्धा, विश्व­रू­प­त्व­गु­णकः सूर्योऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धा­दि­भा­व­मु­प­दिश्य सम­स्त­वै­श्वा­न­र­ध्या­न­वि­धि­रा­म्ना­यते
यस्त्वेतमिति ।
आभि­मु­ख्ये­ना­प­रो­क्ष­तया विश्वं मिमीते जाना­ती­त्य­भि­वि­मानः । तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः । लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः ।

सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः । विश्वानि रूपाण्यस्य सूर्यस्य, 'एष शुक्ल एष नीलः' इति श्रुतेः । पृथक्नानाविधं वर्त्म गमनमात्मा स्वभावो यस्य वायोः स नाना­ग­ति­त्व­गु­ण­कोऽस्य प्राणः । बहुलत्वं व्यापित्वं तद्गुण आकाशोऽस्य सन्देहो देहमध्यम् । रयित्वं धनत्वं तद्गुणा आपो यस्य बस्ति­र्मू­त्र­स्था­नम् । प्रति­ष्ठा­त्व­गुणा पृथिवी तस्य पादौ । तस्य होमाधारत्वं सम्पादयति
उर एवेत्यादिना ।

पूर्व­मु­प­क्र­म­स्था­दृ­श्य­त्वा­दि­सा­धा­र­ण­ध­र्मस्य वाक्य­शे­ष­स्थ­स­र्व­ज्ञ­त्वा­दि­लि­ङ्गेन ब्रह्म­नि­ष्ठ­त्व­मु­क्तम् , तद्व­द­त्रा­प्यु­प­क्र­म­स्थ­सा­धा­र­ण­वै­श्वा­न­र­श­ब्दस्य वाक्य­शे­ष­स्थ­हो­मा­धा­र­त्व­लि­ङ्गेन जाठ­र­नि­ष्ठ­त्व­मिति दृष्टान्तेन पूर्वपक्षयति
किन्ता­व­दि­त्या­दिना ।
पूर्वो­त्त­र­प­क्ष­यो­र्जा­ठ­र­ब्र­ह्म­णो­र्ध्यानं फलम् । यदद्यते तदन्नम् , येन पच्यते सोऽयं पुरु­ष­श­री­रेऽ­न्त­र­स्ती­त्यर्थः ।

पक्षान्तरमाह
अग्निमात्रं वेति ।
विश्वस्मै भुवनाय वैश्वा­न­र­म­ग्नि­मह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः । सूर्योदये दिन­व्य­व­हा­रा­दि­त्यर्थः । स्याद्वैश्वानर इत्यनुषङ्गः । हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वा­न­रोऽ­भि­मुखा श्रीर­स्ये­त्य­भि­श्री­री­श्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभ­म­ति­र्भ­व­त्वि­त्यर्थः ।

पक्ष­त्र­येऽ­प्य­रुचिं वद­न्क­ल्पा­न्त­र­माह
अथेत्यादिना ।
'आत्मा वैश्वानरः' इति श्रुतेरित्यर्थः । केवलत्वं वैश्वा­न­र­श­ब्द­शू­न्य­त्वम् । अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणा­ग्नि­हो­त्र­हो­मा­धा­र­त्व­लि­ङ्गात् । तस्य देह­व्या­पि­त्वा­दा­त्मत्वं श्रुत्या द्युमू­र्ध­त्वा­दि­क­ल्प­नया बृह­त्त्वा­द्ब्र­ह्म­त्व­मिति ध्येयम् ।

सिद्वान्तयति
तत इदमिति ।
साधा­र­ण­श्रु­त्यो­रू­प­क्र­म­स्थ­यो­र्वि­शे­षा­त्प्र­थ­म­श्रु­त­मु­ख्य­त्रै­लो­क्य­श­री­र­लि­ङ्गा­त्स­र्वा­त्म­के­श्व­र­प­रत्वं युक्तम् , न चर­म­श्रु­त­क­ल्पि­त­हो­मा­धा­र­त्व­लि­ङ्गेन जाठ­र­त्व­मि­त्यर्थः ।

ननु निर्विशेषस्य कुतो विशेष इत्यत आह
अत्र हीति ।
अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः ।

जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत् , न, अस­त्क­ल्प­ना­पत्तेः । ईश्वरस्य तु उपा­दा­न­त्वा­द्वि­शेषः सन्नेव ध्याना­र्थ­मु­च्य­ता­मि­त्याह
कारणत्वादिति ।

लिङ्गा­न्त­रा­ण्याह
स सर्वे­ष्वि­त्या­दिना ।
यथाग्नौ निक्षि­प्त­मि­षी­का­तूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥ २४ ॥

नन्वसदारोपेणापि स्तुतिसम्भवान्न मूल­श्रु­त्य­पे­क्षे­त्या­श­ङ्क्याह
यद्यपि स्तुतिरिति ।

तथापीतिपदमर्थतः पठति
स्तुतित्वमपीति ।
द्युमू­र्ध­त्वा­दि­रू­पेण स्तुति­र्न­र­मा­त्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः । सता रूपेण स्तुति सम्भ­वा­न्ना­स­दा­रोप इति भावः ॥ २५ ॥

शब्दादीनां गतिं वक्तु­मु­क्त­सि­द्वा­न्त­मा­क्षिप्य समाधत्ते
शब्दादिभ्य इति ।
'स एषोऽ­ग्नि­र्वै­श्वा­नरः' इत्यग्निरहस्ये वैश्वा­न­र­वि­द्यायां श्रुतोऽग्निशब्द ईश्वरे न सम्भवतीत्यन्वयः ।

सूत्र­स्था­दि­श­ब्दा­र्थ­माह
आदिशब्दादिति ।
भक्तमन्नम् , होमीयं होमसाधनम् , तेन प्राणा­ग्नि­होत्रं कार्यमित्यर्थः ।

वाज­स­ने­यि­ना­म­ग्नि­र­हस्ये सप्रपञ्चां वैश्वा­न­र­वि­द्या­मुक्त्वा 'स यो हैतमग्निं वैश्वानरं पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद स सर्व­त्रा­न्न­मत्ति' इत्युक्तं देहान्तःस्थत्वं जाठरे सम्भवति, प्रसि­द्धे­रि­त्याह
तथेति ।
अत्र सूत्रे आदि­प­दे­नै­वा­न्तः­प्र­ति­ष्ठा­नस्य ग्रहे सम्भवति पृथगुक्तिः साधा­र­ण­लि­ङ्ग­त्व­द्यो­त­नार्था । शब्दा­दि­ब­ला­दि­द­मपि जाठरं गम­य­ती­त्य­भ्यु­च्चयः ।

यद्यपि द्युमू­र्ध­त्वा­दि­वि­शेष ईश्वरपक्षपाती होमा­धा­र­त्वा­दि­र्जा­ठ­र­प­क्ष­पा­तीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न सम्भवतीति बलवानित्यत आह
अथवेति ।
एष द्युमू­र्ध­त्वा­दि­नि­र्देश इत्यर्थः । इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथो­र्म­ध्य­म­न्त­रिक्षं च यो भूता­ग्नि­र्भा­नु­रू­पे­णा­त­तान व्याप्तवान् स ध्यातव्य इत्यर्थः ।

जडमात्रस्य न ध्येयत्वमित्यत आह
अथवेति ।

सिद्धान्तयति
न तथा­दृ­ष्ट्यु­प­दे­शा­दि­तीति ।

पर­मे­श्व­र­दृ­ष्ट्यो­पा­स्य­जा­ठ­रा­ग्नि­प्र­ती­क­वा­च­का­भ्या­म­ग्नि­वै­श्वा­न­र­श­ब्दाभ्यां द्युमू­र्ध­त्वा­दि­मा­नी­श्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह
अथवा जाठरेति ।
अस्मिन्पक्षे प्राधा­न्ये­ने­श्व­रो­पा­स्यता पूर्वत्र गुणतयेति भेदः । उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।

लक्ष­णा­बी­ज­म­स­म्भवं व्याचष्टे
यदि चेति ।

पुरु­ष­म­पी­त्या­दि­सू­त्र­शेषं व्याचष्टे
यदि च केवल इति ।
ईश्व­र­प्र­ती­क­त्वो­पा­धि­त्व­शू­न्यै­त्यर्थो विवक्ष्येत तदेति शेषः । यत्यः, पुरुषः, स एषोऽ­ग्नि­र्वै­श्वा­न­र­श­ब्दि­त­जा­ठ­रो­पा­धिक इति श्रुत्यर्थः । यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।

पुरुषत्वं पूर्ण­त्व­म­चे­त­नस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह
ये त्विति ।

ननु जाठरस्यापि देह­व्या­पि­त्वा­त्त­द्वि­धत्वं स्यादित्यत आह
पुरुषविधत्वं च प्रकरणादिति ।
न देहव्यापित्वं पुरुषविधत्वं किन्तु विरा­ड्दे­हा­का­र­त्वम् , अधिदैवं पुरु­ष­वि­ध­त्व­म­ध्यात्मं चोपा­स­क­मू­र्धा­दि­चु­बु­का­न्ते­ष्व­ङ्गेषु सम्प­न्न­त्व­मी­श्व­रस्य पुरु­ष­वि­ध­त्व­मि­त्यर्थः ॥ २६ ॥

ईश्वरस्याङ्गेषु सम्प­त्ति­र्व­क्ष्यते । एवं जाठरं निरस्य पक्षद्वयं निरस्यति
अत एवेति ।

सूत्रं व्याचष्टे
यत्पु­न­रि­त्या­दिना ।
द्युमू­र्ध­त्वादिः, सर्व­लो­क­फ­ल­भा­क्त्वम् , सर्व­पा­प्म­प्र­दाहः, आत्म­ब्र­ह्म­श­ब्दो­प­क्रम उक्तहेतवः ।

तानेव स्मारयति
न हि भूता­ग्ने­रि­त्या­दिना ।
'यो भानुना' इति मन्त्रे­णे­श्व­र­दृष्ट्या महिमोक्त इति भावः ॥ २७ ॥

पूर्व­म­ग्नि­वै­श्वा­न­र­श­ब्दा­वी­श्व­र­ल­क्ष­का­वि­त्यु­क्तम् । अधुना प्रती­को­पा­धि­प­रि­त्या­गेन विरा­ट्पु­रु­षा­का­रस्य भगवतो वैश्वा­न­र­स्या­ध्यात्मं मूर्धा­दि­चु­बु­का­न्तेषु सम्पा­द्यो­पा­स्य­त्वा­ङ्गी­का­रेऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात् , अन्तः­स्थ­त्वा­दीनां च तत्र सम्भवादित्याह
साक्षादपीति ।

साक्षा­त्प­द­स्या­र्थ­माह
विनैवेति ।
जाठ­रा­ग्नि­स­म्बन्धं विने­श्व­र­स्यो­पा­स्य­त्वेऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः । इद­म­न्त­स्थ­त्व­मु­द­र­स्थ­त्व­रूपं नोच्यते किन्तु नखा­दि­शि­खा­न्ता­व­य­व­स­मु­दा­या­त्म­क­पु­रु­ष­श­रीरे मूर्धा­दि­चि­बु­का­न्ता­ङ्गानि वृक्षे शाखा­व­त्प्र­ति­ष्ठि­तानि, तेषु सम्पन्नो वैश्वानरः पुरु­षेऽ­न्तः­प्र­ति­ष्ठित इत्युच्यते ।

अतो यथा शाखास्थस्य पक्षिणो वृक्षा­न्तः­स्थत्वं तथा वैश्वानरस्य पुरु­षा­न्तः­स्थ­त्व­मि­त्याह
न हीह पुरु­ष­वि­ध­मि­त्या­दिना ।
अग्न्या­दि­श­ब्द­स्ये­श्व­र­वा­चि­त्वा­ज्जा­ठ­रा­ग्ने­र­सं­श­ब्दि­त­त्वम् । अत्रेश्वरस्य पुरुषावयवेषु सम्पा­द­ना­त्पु­रु­ष­वि­ध­त्व­म­न्तः­स्थत्वं चेत्यर्थः ।

पक्षान्तरमाह
अथवेति ।
पुरुषविधत्वं पूर्ववत् । अन्तःस्थत्वं माध्यस्थ्यं साक्षि­त्व­मि­त्यर्थः ।

एव­म­न्तः­स्थ­त्व­मी­श्वरे व्याख्याय शब्दादीनि व्याचष्टे
निश्चिते चेति ।
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् । विश्वेषां विकाराणां वा नरः कर्ता । विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः । रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः । 'नरे संज्ञायां' इति पूर्वपदस्य दीर्घता । अगि­धा­तो­र्ग­त्य­र्थस्य निप्र­त्य­या­न्तस्य रूपमग्निरिति । अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्नि­र­ग्र­णी­रुक्तः । अभितोऽग इति वा अग्निः ।

वैश्वा­न­रो­पा­स­क­स्या­ति­थि­भो­ज­ना­त्पूर्वं प्राणा­ग्नि­होत्रं विद्याङ्गत्वेन विहितम् , तद­र्थ­म­ग्नि­त्रे­ता­दि­क­ल्पनं प्रधानाविरोधेन नेतव्यमित्याह
गार्हपत्येति ॥ २८ ॥

मात्रां परि­मा­ण­म­ति­क्रा­न्तोऽ­ति­मात्रः तस्य विभोरित्यर्थः । उपासकानां कृतेऽनुग्रहाय प्रादे­श­मा­त्रोऽ­भि­व्य­ज्यते, प्रदेशेषु वा मीयतेऽभिव्यज्यत इति प्रादेशमात्रः ॥ २९ ॥

मतान्तरमाह
अनुस्मृतेरिति ।
प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः ।

यथाकथञ्चिदिति ।
मनःस्थं प्रादे­श­मा­त्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुते­रा­ल­म्ब­न­मि­त्यर्थः ।

सूत्र­स्या­र्था­न्त­र­माह
प्रादेशेति ॥ ३० ॥

सम्प्रति श्रुत्युक्तां प्रादे­श­मा­त्र­श्रु­ते­र्ग­ति­माह
सम्पत्तेरिति ।

ब्राह्मणं पठति
प्रादे­श­मा­त्र­मि­वेति ।
अप­रि­च्छि­न्न­म­पी­श्वरं प्रादे­श­मा­त्र­त्वेन सम्पत्त्या कल्पितं सम्य­ग्वि­दि­त­वन्तो देवा­स्त­मे­वे­श्व­र­मभि प्रत्यक्त्वेन सम्पन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यम् , तथा द्युप्र­भृ­ती­न­व­य­वा­न्व­क्ष्यामि यथा प्रादेशमात्रं प्रादे­श­प­रि­मा­ण­म­न­ति­क्रम्य मूर्धा­द्य­ध्या­त्मा­ङ्गेषु वैश्वानरं सम्पा­द­यि­ष्या­मीति प्राची­न­शा­ल­दी­न्प्रति राजा प्रतिज्ञाय स्वकी­य­मू­र्धा­न­मु­प­दि­शन् करेण दर्शयन्नुवाचएष वै मे मूर्धा भूरा­दीं­ल्लो­का­न­तीत्य उपरि तिष्ठ­ती­त्य­ति­ष्ठाासौ द्युलोको वैश्वानरः । तस्य मूर्धेति यावत् । अध्या­त्म­मू­र्धा­भे­दे­ना­धि­दै­व­मूर्धा सम्पाद्य ध्येय इत्यर्थः । एवं चक्षु­रा­दि­षू­ह­नी­यम् ।

स्वकीयचक्षुषी दर्शयन् 'एष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षु­रि­त्यु­वाच' । नासिकापदेन तन्निष्ठः प्राणो लक्ष्यते तस्मि­न्ना­ध्या­त्मि­क­प्रा­णेऽ­धि­दै­व­प्रा­णस्य वायोर्दृष्टिमाह
नासिक इति ।
अत्र सर्वत्र वैश्वा­न­र­श­ब्द­स्त­द­ङ्ग­परः । मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुख­स्थ­ला­ला­रू­पा­स्वप्सु रैश­ब्दि­त­त­दी­य­ब­स्ति­स्थो­द­क­दृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या ।

ननु गुणवैषम्येण विद्य­यो­र्भे­दा­द­ग्नि­र­हस्ये श्रुत्यनुसारेण छान्दो­ग्य­स्थ­प्रा­दे­श­मा­त्र­क्षुतिः कथं व्याख्ये­ये­त्या­श­ङ्क्याह
यद्यपीत्यादिना ।
एता­व­ता­ल्प­वै­ष­म्येण बहु­त­र­प्र­त्य­भि­ज्ञा­सिद्धं विद्यैक्यं न हीयते । शाखाभेदेऽपि सर्वशाखासु प्रतीयमानं वैश्वा­न­रा­द्यु­पा­स­न­मे­क­मिति न्यायस्य वक्ष्य­मा­ण­त्वाच्च । अति­ष्ठा­त्व­गु­ण­श्छा­न्दोग्य उपसंहर्तव्यः । विश्व­रू­प­त्व­गु­णश्च वाजि­भि­र्ग्राह्यः । तथाच द्युसूर्ययोः सुतेजस्त्वं सम­म­ति­ष्ठा­त्व­वि­श्व­रू­प­त्व­यो­र्व्य­वस्था । यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः ॥ ३१ ॥

प्रादेशत्वस्य सम्प­त्ति­प्र­यु­क्तत्वे श्रुत्यन्तरं संवादयति
आमनन्तीति ।
य एषोऽ­न­न्तोऽ­प­रि­च्छिन्नः अतोऽव्यक्तो दुर्विज्ञेयस्तं कथं जानी­या­मि­त्यत्रेः प्रश्ने याज्ञ­व­ल्क्य­स्यो­त्त­रम् , स ईश्वरोऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः । पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति । एवं प्रश्नोत्तरे अग्रेऽपि ज्ञेये । तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना । सर्वा­नि­न्द्र­य­कृ­ता­न्दो­षा­न्वा­र­य­तीति वरणा भ्रूः, सर्वा­न्दो­षा­न्ना­श­य­तीति नासी नासिकेति निर्वचनं श्रुतम् । नासा­भ्रु­वो­र्जी­व­द्वा­रे­श्व­र­स्था­न­त्व­ध्या­ना­त्पा­प­वा­र­क­त्व­मिति मन्तव्यम् । तयोर्मध्येऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवो­रि­त्यु­त्त­रम् । प्राणस्येति पाठेऽपि घ्राण­स्ये­त्यर्थः ।

स एष सन्धि­र्द्यु­लो­कस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य सन्धित्वेन ध्येय इत्याह
स एष इति ।
आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा । अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् । मानमत्र परिमाणम् । अभिविमिमीते निर्मिमीते । तस्मा­द्वै­श्वा­न­र­वा­क्य­मु­पास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥ ३२ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्पा­द­कृतौ श्रीम­च्छा­री­र­क­मी­मां­सा­व्या­ख्यायां भाष्य­र­त्न­प्र­भायां प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥