अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

पुरुषार्थाधिकरणम्

एवं सिद्धा­न्त­मु­प­क्रम्य पूर्वपक्षयति -
शेषत्वादिति ।
सूत्रेऽ­र्थ­वा­द­प­द­मा­व­र्त­नी­यम् । ज्ञाना­त्पु­रु­षा­र्थ­वा­दो­र्ऽ­थ­वाद इत्यर्थः । ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मे­शे­षा­श्र­य­त्वा­त्प्रो­क्ष­ण­प­र्ण­म­यी­त्वा­दि­व­दिति भावः । तत्त्व­नि­र्ण­यार्थं गुरुशिष्ययोः कथावादोऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् ।

अङ्गि­फ­ले­ना­ङ्ग­भूत आत्मा­व­ग­त­प्र­यो­ज­न­स्त­दा­श्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः -
यथेति ।
पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः । वर्म कवचम् ।

आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते -
कथमिति ।

पूर्वपक्ष्याह -
कर्त्रिति ।

युक्तो ह्यना­र­भ्या­धी­तायाः पर्णताया जुहूद्वारेण वाक्या­त्क्र­त्व­ङ्ग­भावो जुह्वाः क्रतुव्याप्यतया क्रतू­प­स्था­प­क­त्वात्, न तथा­त्म­वि­ज्ञा­न­स्यऽ­आत्मा द्रष्टव्यःऽइति वाक्या­त्क्र­तु­सं­बन्ध उपपद्यते, आत्मनः क्रतु­व्या­प्त्य­भा­वा­दिति सिद्धान्ती दूषयति -
नेति ।

देहभिन्नत्वेन ज्ञातात्मनः क्रतु­व्या­प्य­त्व­म­स्तीति पूर्वपक्षी समाधत्ते -
न व्यतिरेकेति ।

सर्वथेति ।
देहा­त्म­त्वे­ना­पी­त्यर्थः ।

देह­भि­न्न­क­र्तृ­ज्ञा­न­स्या­ङ्ग­त्वेऽ­प्य­क­र्तृ­ब्र­ह्मा­त्म­ज्ञा­नस्य नाङ्गत्वमिति शङ्कते -
नन्वपहतेति ।
यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचि­त­भो­क्तृ­भि­न्न­म­क­र्तृ­स्व­रूपं नास्तीति समाध्यर्थः ।

जन्मा­दि­सू­त्र­मा­रभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते -
नन्विति ।

स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­वि­चा­रेण दार्ढ्यं क्रियत इत्याह -
सत्यमिति ॥२॥

ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह -
आचारेति ।
ईजे यागं कृतवानित्यर्थः । हे भगवन्त इति ब्राह्म­णा­न्सं­बोध्य ब्रह्म­वि­त्कै­के­य­राजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणोऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः । अन्यपरेष्विति विद्या­वि­धि­प­रे­ष्वि­त्यर्थः ।

अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह -
अक्व इति ।
समीप इत्यर्थः ॥ अर्क इति पाठेऽ­प्य­य­मे­वार्थः ॥३॥

ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुति­र­प्य­स्ती­त्याह -
तच्छ्रुतेरिति ॥४॥

लिङ्गान्तरमाह -
समिति ।
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः ॥५॥ गुरोः शुश्रूषारूपं कर्म कुर्व­न्न­ति­शे­षे­णा­व­शि­ष्टेन कालेन यथाविधानं वेद­म­धी­त्या­न­न्त­र­मा­चा­र्यस्य कुलाद्गृहात् । ब्रह्मचर्यादिति यावत् । अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्या­या­ध्य­यनं कुर्व­न्न­न्यांश्च नित्या­दि­ध­र्मा­न­नु­ति­ष्ठ­न्ब्र­ह्म­लोकं प्राप्नोतीति श्रुत्यर्थः । यथा­व­घा­त­स्तु­ष­वि­मो­क­प­र्यन्त एव­म­ध्य­य­न­म­र्था­व­बो­धा­न्तम् । दृष्टे­र्ऽ­था­व­बो­धाख्ये फले संभवति अध्य­य­न­स्या­दृ­ष्टा­र्थ­त्वा­यो­गा­दिति पूर्वतन्त्रे स्थितम् । ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्म­वि­धा­न­मि­त्यर्थः ॥६॥

यावज्जीवं कर्म­नि­य­मोऽ­प्यत्र लिङ्गमित्याह -
नियमाच्चेति ।
इह देहे कर्माणि कुर्वन्नेव शतं संव­त्स­रा­ञ्जी­वि­तु­मि­च्छे­देवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते । इतः कर्मणोऽन्यथा नास्ति । कर्म विना श्रेयो नास्तीत्यर्थः । जरामर्यं जरा­म­र­णा­व­धि­क­मि­त्यर्थः ॥७॥

कर्तु­र­धि­क­स्या­सं­सा­र्या­त्मनः कर्म­शे­ष­त्वा­भा­वा­त्त­त्त्व­ज्ञानं कर्माङ्गं नेति सिद्धान्तयति -
अधिकेति ।
अस्य महत इति वाक्य­शे­षा­त्प्रि­य­सं­सू­चित आत्मा पर एव द्रष्टव्यः । यः प्राणादि प्रेरयति सोऽप्य­श­ना­या­द्य­त्य­य­वा­क्य­शे­षा­त्पर एव । तथा­क्षि­पु­रु­षोऽ­प्य­व­स्था­साक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः ।

जीवा­नु­क­र्ष­ण­म­भे­दा­भि­प्रा­य­मि­त्य­ङ्गी­कारे न विरोध इति कथम्, अभेदे जीव­त्व­वि­रो­धा­दि­त्यत आह -
पारमेश्वरमिति ।
ज्ञानं कर्माङ्गमफलत्वे सति कर्म­शे­षा­श्र­य­त्वा­दि­त्युक्तो हेतुरसिद्ध इति भावः ॥८॥

ब्रह्मविदां कर्म­व­त्सं­न्या­स­स्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोक­सं­ग्र­हा­र्थ­त्वे­ना­न्य­था­सि­द्ध­मि­त्याह -
तुल्यं त्विति ।

किञ्च यस्य कर्म स न ब्रह्मविदित्याह -
अपि चेति ।

तर्हि वैश्वा­न­र­वि­द्यायाः कर्माङ्गत्वं स्यादित्यत आह -
नत्विति ।
ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभि­मा­ना­भा­वे­ना­न­धि­का­रि­त्वा­दिति भावः ॥९ ॥ ॥१०॥

सम­न्वा­र­म्भ­व­च­नस्य मुमु­क्षु­वि­ष­य­त्व­म­ङ्गी­कृत्य विद्या अन्यं मुमुक्षुं मुक्त­त्वे­ना­न्वा­र­भत इति विभाग उक्तः सूत्रकृताः । वस्तुतस्तु तन्नास्तीत्याह -
न चेदं सम­न्वा­र­म्भ­व­च­न­मिति ।

तत्र संसारिविषये तं विद्ये­त्या­दि­वाक्ये यथा­प्रा­प्ता­नु­वा­दिनि विद्या­दि­प­दा­र्थ­माह -
तत्रेति ।
विहि­तो­द्गी­था­दि­विद्या प्रतिषिद्धा नग्नि­स्त्री­ध्या­ना­दि­रूपा ॥११॥

यच्चैतदिति ।
उक्तमिति शेषः । अवि­द्य­त्वा­द्वे­दा­र्थ­ज्ञा­न­शू­न्य­त्वा­दि­त्यर्थः ।

मात्र­प­द­मा­त्म­ज्ञा­नस्य व्यावर्तकं न कर्म­ज्ञा­न­स्ये­त्याह -
नैष दोष इति ॥१२ ॥ ॥१३॥

निय­म­वा­क्य­म­ज्ञ­वि­ष­य­मि­त्युक्तं विदुषो ज्ञान­स्तु­त्यर्थं वेत्याह -
स्तुतय इति ।
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्या­ल­ब्धा­द्ब्र­ह्म­भा­वा­द­न्य­थास्ति कर्मणा संसारो नास्तीति यावत् । यतः कर्म न लिप्यते । अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥१४॥

स्वेच्छातः कर्म­सा­ध­न­प्र­जा­दि­त्या­लि­ङ्गाच्च विद्या स्वत­न्त्र­फ­ले­त्याह -
कामेति ।
तदेतद्ब्रह्म येषां नोऽस्मा­क­म­य­म­प­रोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः ।

नन्वयं लोक इति ज्ञानफलस्य प्रत्य­क्ष­त्वो­क्ति­र­युक्ता कर्म­फ­ल­व­द­दृ­ष्ट­त्वा­दि­त्यत आह -
अनुभवेति ॥१५॥

न केव­ल­म­नु­प­यो­गा­ज्ज्ञा­नस्य कर्मानङ्गत्वं किन्तु कर्म­ना­श­क­त्वा­च्चे­त्याह -
उपमर्दं चेति ॥१६॥

किञ्च कर्म­त­त्त्व­ज्ञाने नाङ्गाङ्गिभूते भिन्ना­धि­का­रि­स्थ­त्वा­द्रा­ज­सू­य­बृ­ह­स्प­ति­स­व­व­दि­त्याह -
ऊर्ध्वेति ।
त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः ।

'ब्रह्म­च­र्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणः' इति श्रुतेः । 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः' इति स्मृतेश्च प्राप्त­गा­र्ह­स्थ्य­स्यैव निर­स्त­र्ण­त्र­यस्य पारि­व्रा­ज्य­मि­त्यपि शङ्का न कार्या । ब्रह्मचर्यादेव प्रव्रजेदिति द्विती­य­मा­श्र­म­मि­च्छे­त्त­मा­व­से­दिति च विधि­श्रु­ति­स्मृ­ति­वि­रो­धेन अर्थ­वा­द­श्रु­ति­स्मृ­त्यो­र­वि­र­क्त­वि­ष­य­त्वा­ग­मा­दि­त्याह -
प्रतिपन्नेति ।
तस्मादि ति संन्या­स­नि­ष्ठ­त्वा­दि­त्यर्थः ॥१७॥