भाष्यरत्नप्रभाव्याख्या
कम्पनाधिकरणम्
कम्पनात् । अस्यापि प्रासङ्गिकत्वमाशङ्क्याह
अवसित इति ।
समाप्त इत्यर्थः ।
काठकं पठति
यदिदमिति ।
सर्वं जगत्प्राणान्निःसृतमुत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म बिभेत्यस्मादिति भयम् । तस्मिन् भयहेतुत्वे दृष्टान्तमाह
वज्रमिति ।
यथोद्यतं वज्रं भयं तथेत्यर्थः ।
य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह
य इति ।
नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह
एतदिति ।
एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः ।
प्रासङ्गिकाधिकारचिन्तयास्य सङ्गतिर्नापेक्षितेति 'शब्दादेव प्रमितः' इत्यनेनोच्यते । तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तम् , न तथेह प्राणानुवाद ऐक्यज्ञानार्थः सम्भवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् । अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति
प्रसिद्धेः पञ्चवृत्तिरिति ।
ननु 'अत एव प्राणः' इत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह
वायोश्चेति ।
प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् । अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः ।
वज्रलिङ्गाच्च वायुरित्याह
वाय्विति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।
सूत्राद्वहिरेव सिद्धान्तं प्रतिजानीते
ब्रह्मैवेति ।
पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह
पूर्वत्रेत्यादिना ।
शुक्रं स्वप्रकाशम् । तदु नात्येति ब्रह्मानाश्रितः कोऽपि लोको नास्त्येवेत्युकारार्थः ।
सौत्रं लिङ्गं व्याचष्टे
एजयितृत्वमिति ।
सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः ।
ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह
वज्रशब्द इति ।
बृहदारण्यके 'वायुरेव व्यष्टिः' इत्यत्र 'अपपुनर्मृत्युम्' इत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम् , तत्रैव वायूपास्तिप्रकरणं समाप्य 'अथ हैनमुषस्तः पप्रच्छ' इति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह
यत्तु वाय्वित्यादिना ।
तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम् ॥ ३९ ॥