भाष्यरत्नप्रभाव्याख्या
सङ्कल्पाधिकरणम्
एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति -
सङ्कल्पादेव तु तच्छ्रुतेः ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य सङ्कल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसङ्कल्पत्वादस्मदादिसङ्कल्पवत् । न चैवकारविरोधः सङ्कल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः । अत्र लोकवृत्तानुसरणं फलम् , सिद्धान्ते तु विद्याबलेन सङ्कल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति भेदः ।
किञ्च यदि भोगसङ्कल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसङ्कल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसङ्कल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह -
निमित्तान्तरमपि त्विति ॥८॥
नन्वीश्वराधीनस्य विदुषः कथं सङ्कल्पमात्राद्भोगसिद्धिस्तत्राह -
अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न सङ्कल्पभङ्ग इति भावः ॥९॥