भाष्यरत्नप्रभाव्याख्या
आरम्भणाधिकरणम्
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह -
तदनन्यत्वमिति ।
समानविषयत्वं सङ्गतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह -
अभ्युपगम्येति ।
प्रत्यक्षादीनाम् उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, सम्प्रत्यङ्गीकृतं प्रामाण्यम् , तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथा च मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः ।
एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति -
यस्मात्तयोरिति ।
स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह -
व्यतिरेकेणेति ।
कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।
वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति -
एतदुक्तमिति ।
आरम्भणशब्दार्थान्तरमाह -
पुनश्चेति ।
अपागादग्नित्वमपगतं कारणमात्रत्वात् । त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् । तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः ।
जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह -
न चान्यथेति ।
तयोरनन्यत्वे क्रमेण दृष्टान्तावाह -
तस्माद्यथेति ।
प्रतिज्ञाबलादित्यर्थः । दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति सम्बन्धः ।
शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति -
नन्विति ।
अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः ।
भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति -
नैवं स्यादिति ।
एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः ।
किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह -
स आत्मेति ।
एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह -
स्वयमिति ।
अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह -
अतश्चेति ।
स्वतःसिद्धोपदेशादित्यर्थः ।
यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा । नाद्य इत्याह -
बाधिते चेति ।
स्वभावोऽत्राविद्या तया कृतः स्वाभाविकः । ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः । न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।
यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह -
न चायमिति ।
संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात् , भेदाभेदयोरेकदैकत्र विरोधात् । अतोऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारोऽपि मिथ्यैवेत्यर्थः । किञ्च यथा लोके कश्चित्तस्करबुद्ध्या भटैर्गृहीतोऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।
तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह -
तस्करेति ।
व्यवहारगोचरो नानात्वव्यवहाराश्रयः ।
नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह -
मृत्योरिति ।
किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात् , प्रमायाः प्रमान्तराबाध्यत्वादित्याह -
न चास्मिन्निति ।
वैपरीत्यस्यापि सम्भवादिति भावः ।
इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति -
नन्वित्यादिना ।
एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः ।
ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह -
कथं चानृतेनेति ।
धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः ।
तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह -
अत्रोच्यत इत्यादिना ।
सत्यत्वं बाधाभावः । बाधो मिथ्यात्वनिश्चयः ।
वस्तुतो मिथ्यात्वेऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति -
यथा सुप्तस्य प्राकृतस्येति ।
एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति -
कथं त्वसत्येनेति ।
किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न । आद्य इष्ट एव । न हि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः ।
अङ्गीकृत्यापि दृष्टान्तमाह -
नैष दोष इति ।
सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात्सत्यं न जायत इत्यनियम इत्यर्थः ।
दृष्टान्तान्तरमाह -
स्वप्नेति ।
असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः ।
यथाश्रुतमादाय शङ्कते -
तत्कार्यमपीति ।
उक्तमर्थं प्रकटयति -
तत्र ब्रूम इत्यादिना ।
अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः ।
प्रसङ्गाद्देहात्मवादोऽपि निरस्त इत्याह -
एतेनेति ।
स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नोऽवगत इत्यबाधितावगतिप्रतिसन्धानं न स्यात् । अतो देहभेदेऽप्यनुसन्धानदर्शनाद्देहान्योऽनुसन्धातेत्यर्थः ।
असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह -
तथा च श्रुतिरिति ।
न च स्त्रियो मिथ्यात्वेऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृद्धेर्ज्ञानमिति वाच्यम् , विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृतेऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याज्ज्ञानसम्भवाच्चेति भावः ।
असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह -
तथेति ।
असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह -
तथाकारादीति ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः । एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना । तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं सम्भवतीति तात्त्विकं प्रामाण्यमिति भावः ।
यदुक्तमेकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न । भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् । किञ्च यद्युभयोरेकदा व्यवहारः स्यात्तदा स्यादपि सत्यत्वम् । नैवमस्ति । एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात् , शुक्तिज्ञानेनेव रजतस्येत्याह -
अपि चान्त्यमिति ।
ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह -
न चेयमिति ।
तत्किलात्मतत्त्वमस्य पितुर्वाक्यात्श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः । व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यम् , तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते । किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः ।
किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह -
न चेयमिति ।
ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत् सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्न 'पीत्युक्तस्वप्नदृष्टान्तं स्मारयति -
प्राक्चेति ।
व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसङ्गतमित्युपसंहरति -
तस्मादिति ।
नेदं कल्पितम् , किन्तु श्रुतमिति शङ्कते -
नन्विति ।
कार्यकारणयोरनन्यत्वांशेऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति -
नेत्युच्यत इति ।
सृष्टौ परिणामित्वं प्रलये तद्राहित्यं च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते -
स्थितीति ।
कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह -
नेति ।
कूटस्थत्वासिद्धिमाशङ्क्याह -
कूटस्थस्येति ।
कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः ।
किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह -
न च यथेत्यादिना ।
'तं यथा यथोपासते तदेव भवति' इति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह -
न हि परिणामवत्त्वेति ।
'ब्रह्मविदाप्नोति परम्' इति श्रुतकूटस्थनित्यमोक्षफलसम्भवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः ।
ननु पूर्वं 'जन्माद्यस्य यतः' इति ईश्वरकारणप्रतिज्ञा कृता । अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते -
कूटस्थेति ।
कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतोऽनन्यत्वमित्यविरोधमाह -
नेत्यादिना ।
अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः ।
सङ्गृहीतार्थं विवृणोति -
तस्मादित्यादिना ।
तत्वान्यत्वाभ्यामिति ।
नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् । नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः ।
संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते -
मायेति ।
नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह -
ताभ्यामन्य इति ।
अन्यत्वे व्याकरणे च श्रुतिमाह -
आकाश इत्यादिना ।
अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वम् , प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह -
स च स्वात्मभूतानिति ।
न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यम् , बुद्ध्यादिसङ्घातभेदेन भेदोक्तेः । अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् ।
परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह -
तथा चेति ।
कथं तर्हि कर्तृत्वादिकमित्यत आह -
स्वभावस्त्विति ।
अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः ।
भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह -
नादत्त इति ।
न संहरतीत्यर्थः । तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।
उक्तार्थः सूत्रकारसम्मत इत्याह -
सूत्रकारोऽपीति ।
न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह -
परिणामप्रक्रियां चेति ।
तदुक्तम् 'कृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्' इति ॥१४॥
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह -
भावे चेति ।
कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः । घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात्मृद्वत् ।
अन्यत्वेऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति -
न चेति ।
मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः । गवाश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः ।
अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह -
न च कुलालेति ।
न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावेऽपि हेतुसत्त्वादन्यत्वे गवाश्ववत्तद्भावायोगाच्चेति भावः । कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात् कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः ।
यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते -
नन्विति ।
अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह -
नेति ।
अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमोऽस्तीति व्यभिचार इत्याशङ्कते -
अथेति ।
तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह -
नैवमिति ।
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् । आलोकाभावेऽपि घटादिरूपसत्त्वान्न व्यभिचारः । उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः । तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः । यद्वा । तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः । मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः ।
अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे -
भावाच्चेति ।
पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः । न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणम् , अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः । अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः ।
पटन्यायं तन्त्वादावतिदिशति -
तथेत्यादिना ।
प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।
यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नम् , कार्यत्वात् , पटवदित्यनुमेयमित्याह -
अनयेति ।
कारणपरिशेषे प्रधानादिकं परिशिष्यताम् , न ब्रह्मेत्यत आह -
तत्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः ॥१५॥
इदं जगत्सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः -
सत्त्वाच्चेति ।
श्रुत्यर्थे युक्तिमप्याह -
यच्च यदात्मनेति ।
घटादिकं प्राग्मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात्सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।
कारणवत्कार्यस्यापि सत्त्वात्सत्त्वभेदे मानाभावात्कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह -
यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात्सत्त्वाव्यभिचारः । तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥१६॥ न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यम् , वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥१६॥
उक्तं कार्यस्य प्राक्कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते -
असदिति ।
'अक्ताः शर्करा उपदध्यात्' इत्युपक्रमे केनाक्ता इति सन्देहे 'तेजो वै घृतम्' इति वाक्यशेषाद्धृतेनेति यथा निश्चयः, एवमत्रापि 'तत्सत्' इति वाक्यशेषात्सन्निश्चय इत्यर्थः ।
आसीदित्यतीतकालसम्बन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह -
असतश्च पूर्वापरेति ।
उक्तन्यायं वाक्यान्तरेऽतिदिशति -
असद्वेति ।
क्रियमाणत्वविशेषणं शून्यस्यासम्भवीति भावः ॥१७॥
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः -
युक्तेरिति ।
दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः ।
असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह -
अविशिष्टे हीति ।
असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्' इति । शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतोऽशक्यत्वात् । किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।
कार्यस्यासत्त्वेऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते -
अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।
आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह -
तर्ह्यतिशयवत्त्वादिति ।
द्वितीयेऽपि कार्यसत्त्वमायातीत्याह -
शक्तिश्चेति ।
कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मात्कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यम् , ततः सत्कार्यसिद्धिरित्यर्थः ।
किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह -
अपि चेति ।
तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति -
समवायेति ।
समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरूपसम्बन्धादेवोपपत्तेः समवायासिद्धिः ।
असम्बद्ध इति पक्षे दोषमाह -
अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः । असम्बद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।
विशिष्टधीनियामको हि सम्बन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते -
अथेति ।
सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।
प्रतिबन्द्या दूषयति -
संयोगोऽपीति ।
यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न सम्बन्धत्वादिति, तन्न, धर्मत्वात् समवायस्यापि सम्बन्धान्तरापत्तेरसम्बद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् । किञ्च 'निष्पापत्वादयो गुणाः' इति श्रुतिस्मृत्यादिषु 'व्यवहारादिष्टधर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जातिविशेषो गुणत्वम्' इति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुणत्वमसिद्धमिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।
तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासम्भवादित्याह -
तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्यात्मेत्युक्तम् ।
वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह -
कथं चेति ।
तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति -
यदीत्यादिना ।
व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात्संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।
द्वितीयं शङ्कते -
अथेति ।
यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहेऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसम्भवेऽप्यवयवानामनवस्था स्यादिति दूषयति -
तदापीति ।
आद्यद्वितीयमुद्भाव्य दूषयति -
अथ प्रत्यवयवमित्यादिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्तावनेकत्वापत्तेरित्यर्थः ।
यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते -
गोत्वेति ।
जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति -
न, तथेति ।
दोषान्तरमाह -
प्रत्येकेति ।
अधिकारात्सम्बन्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः । एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।
सम्प्रत्यसत्कार्यवादे दोषान्तरमाह -
प्रागिति ।
यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।
जनेरनुभवसिद्धेऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह -
उत्पत्तिश्चेति ।
असतो घटस्योत्पत्तौ कर्तृत्वासम्भवेऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह -
घटस्य चेति ।
घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति -
तथेति ।
शङ्कामनूद्य दोषमाह -
तथा चेति ।
अनुभवविरोध इत्यर्थः ।
उत्पत्तिर्भावस्याद्याविक्रियेति स्वमतेन कार्यसत्त्वमानीतम् , सम्प्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते -
अथेति ।
तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्बन्धित्वायोगादित्याह -
कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।
ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वंसानन्तरं चासत्मध्ये तु सदेवेति वैषम्यात्सम्बन्धित्वोपपत्तिरित्याशङ्क्याह -
अभावस्येति ।
अत्राभावशब्दा असच्छब्दापरपर्याया व्याख्येयाः । असतः कालेनासम्बन्धात्प्राक्त्वं न युक्तमित्यर्थः ।
ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह -
यदि चेति ।
कार्याभावोऽसत्कार्यमित्यर्थ इत्युपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।
कस्तर्हि निर्णयः, तत्राह -
वयं त्विति ।
'नासतो विद्यते भावः' इति स्मृतेरिति भावः ।
सत्कार्यवादे कारकवैयर्थ्यं शङ्कते -
नन्विति ।
सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह -
तदनन्यत्वाच्चेति ।
अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह -
नैष दोष इति ।
कार्यसत्यत्वमिच्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघटितघठनावभासन चतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।
ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह -
कार्याकारोऽपीति ।
अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।
ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात् , वृक्षवदित्यत आह -
न चेति ।
वस्तुतोऽन्यत्वं सत्यो भेदः ।
हेतोर्व्यभिचारस्थलान्तरमाह -
तथा प्रतिदिनमिति ।
प्रत्यहं पित्रादिदेहस्यावस्थाभेदेऽपि जन्मनाशयोरभावादभेदो युक्तः ।
दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते -
जन्मेति ।
कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति -
नेति ।
दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।
ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह -
अदृश्येति ।
तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।
अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह -
तत्रेदृगिति ।
पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह -
पित्रादीति ।
एतेनेति ।
कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।
स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति -
यस्य पुनरिति ।
असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वेऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते -
समवायीति ।
समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।
द्वितीयमाशङ्क्येष्टापत्तिमाह -
समवायीति ।
कार्याणामवान्तरकारणानन्यत्वमुपसंहरति -
तस्मादिति ।
परमकारणानन्यत्वं फलितमाह -
तथा मूलेति ।
असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह -
यदि तु प्रागुत्पत्तेरिति ॥१८॥
कार्यमुपादानाद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात्ततोऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम् -
पटवच्चेति ।
द्वितीयहेतोर्व्यभिचारं स्फुटयति -
यथा च संवेष्टनेति ।
आयामो दैर्घ्यम् ॥१९॥
तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नम् , भिन्नकार्यकरत्वात् , सम्मतवदिति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः -
यथा च प्राणादीति ।
एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति -
अतश्च कृत्स्नस्येति ॥२०॥