अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

आरम्भणाधिकरणम्

पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह -
तदनन्यत्वमिति ।

समानविषयत्वं सङ्गतिं वदन्नुभयोः परिहारयोः परि­णा­म­वि­व­र्ता­श्र­य­त्वे­ना­र्थ­भे­द­माह -
अभ्युपगम्येति ।
प्रत्य­क्षा­दी­नाम् उत्स­र्गि­क­प्रा­मा­ण्य­म­ङ्गी­कृत्य स्थूल­बु­द्धि­स­मा­धा­नार्थं परि­णा­म­दृ­ष्टा­न्तेन भेदाभेदावुक्तौ, सम्प्र­त्य­ङ्गी­कृतं प्रामाण्यम् , तत्त्वा­वे­द­क­त्वा­त्प्र­च्याव्य व्यावहारिकत्वे स्थाप्यते, तथा च मिथ्या­द्वै­त­ग्रा­हि­प्र­मा­णै­र­द्वै­त­श्रु­तेर्न बाधः, एकस्यां रज्ज्वां दण्ड­स्र­गा­दि­द्वै­त­द­र्श­ना­दि­त्ययं मुख्यः परिहार इति भावः ।

एव­म­द्वै­त­स­म­न्व­य­स्या­वि­रो­धार्थं द्वैतस्य मिथ्यात्वं साधयति -
यस्मात्तयोरिति ।

स्वरूपैक्ये कार्य­का­र­ण­त्व­व्या­घात इत्यत आह -
व्यतिरेकेणेति ।
कार­णा­त्पृ­थ­क्स­त्त्व­शू­न्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।

वागारभ्यं नाममात्रं विकारो न कार­णा­त्पृ­थ­ग­स्ती­त्ये­व­का­रार्थ इति श्रुतिं योजयति -
एतदुक्तमिति ।

आर­म्भ­ण­श­ब्दा­र्था­न्त­र­माह -
पुनश्चेति ।
अपा­गा­द­ग्नि­त्व­म­प­गतं कारणमात्रत्वात् । त्रीणि तेजोबन्नानां रूपाणि रूप­त­न्मा­त्रा­त्म­कानि सत्यम् । तेषामपि सन्मा­त्र­त्वा­त्स­देव शिष्यत इत्यभिप्रायः ।

जीव­ग­ज­तो­र्ब्र­ह्मा­न्यत्वे प्रतिज्ञाबाध इत्याह -
न चान्यथेति ।

तयोरनन्यत्वे क्रमेण दृष्टान्तावाह -
तस्माद्यथेति ।
प्रति­ज्ञा­ब­ला­दि­त्यर्थः । दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रू­पे­णा­नु­पा­ख्य­त्वा­त्स­त्ता­स्फू­र्ति­शू­न्य­त्वा­द­न­न्य­त्व­मिति सम्बन्धः ।

शुद्धाद्वैतं स्वमतमुक्त्वा भेदा­भे­द­म­त­मु­त्था­प­यति -
नन्विति ।
अनेकाभिः शक्ति­भि­स्त­द­धी­न­प्र­कृ­तिभिः परि­णा­मै­र्यु­क्त­मि­त्यर्थः ।

भेदाभेदमते सर्व­व्य­व­स्था­सि­द्धि­र­त्य­न्ता­भेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति -
नैवं स्यादिति ।
एव­का­र­वा­चा­र­म्भ­ण­श­ब्दाभ्यां विका­र­स­त्ता­नि­षे­धा­त्प­रि­णा­म­वादः श्रुतिबाह्य इत्यर्थः ।

किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मै­क्यो­प­देशो न स्याद्वि­रो­धा­दि­त्याह -
स आत्मेति ।

एकत्वं ज्ञान­क­र्म­स­मु­च्च­य­सा­ध्य­मि­त्यु­प­दे­शा­र्थ­मि­त्या­शङ्क्या असी­ति­प­द­वि­रो­धा­न्मै­व­मि­त्याह -
स्वयमिति ।

अत­स्त­त्त्व­ज्ञा­न­बा­ध्य­त्वा­त्सं­सा­रित्वं मिथ्येत्याह -
अतश्चेति ।
स्वतः­सि­द्धो­प­दे­शा­दि­त्यर्थः ।

यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा । नाद्य इत्याह -
बाधिते चेति ।
स्वभा­वोऽ­त्रा­विद्या तया कृतः स्वाभाविकः । ज्ञानादूर्ध्वं प्रमा­तृ­त्वा­दि­व्य­व­हा­र­स्या­भा­वा­न्ना­नात्वं न कल्प्यमित्यर्थः । न द्वितीयः, ज्ञाना­त्प्रा­क्क­ल्पि­त­ना­ना­त्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।

यत्तु प्रमा­तृ­त्वा­दि­व्य­व­हारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह -
न चायमिति ।
संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात् , भेदा­भे­द­यो­रे­क­दै­कत्र विरोधात् । अतोऽ­सं­सा­रि­ब्र­ह्मा­भे­दस्य सदा­त­न­त्वा­व­ग­मा­त्सं­सा­रोऽपि मिथ्यैवेत्यर्थः । किञ्च यथा लोके कश्चि­त्त­स्क­र­बुद्ध्या भटै­र्गृ­ही­तोऽ­नृ­त­वादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।

तथैतदात्म्यमिदं सर्व­मि­त्ये­क­त्व­दर्शी मुच्यत इति श्रुत­दृ­ष्टा­न्ते­नै­कत्वं सत्यं नानात्वं मिथ्येत्याह -
तस्करेति ।
व्यवहारगोचरो नाना­त्व­व्य­व­हा­रा­श्रयः ।

नाना­त्व­नि­न्द­या­प्ये­क­त्व­मेव सत्यमित्याह -
मृत्योरिति ।

किञ्चा­स्मि­न्भे­दा­भे­द­मते जीवस्य ब्रह्मा­भे­द­ज्ञा­ना­द्भे­द­ज्ञा­न­नि­वृ­त्ते­र्मु­क्ति­रिष्टा सा न युक्ता, भेदज्ञानस्य भ्रम­त्वा­न­भ्यु­प­ग­मात् , प्रमायाः प्रमा­न्त­रा­बा­ध्य­त्वा­दि­त्याह -
न चास्मिन्निति ।
वैपरीत्यस्यापि सम्भवादिति भावः ।

इदानीं प्रत्य­क्षा­दि­प्रा­मा­ण्या­न्य­था­नु­प­पत्त्या नानात्वस्य सत्यत्वमिति पूर्व­प­क्ष­बी­ज­मु­द्घा­ट­यति -
नन्वित्यादिना ।
एकत्वस्यैकान्तः कैवल्यम् । व्याह­न्ये­र­न्न­प्र­मा­णानि स्युः । उप­जी­व्य­प्र­त्य­क्षा­दि­प्रा­मा­ण्याय वेदान्तानां भेदा­भे­द­प­र­त्व­मु­चि­त­मिति भावः ।

ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पि­त­भे­द­मा­श्रित्य कर्म­ज्ञा­न­का­ण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मा­दे­र­बा­धा­त्प्रा­मा­ण्य­म­व्या­ह­त­मि­त्या­श­ङ्क्याह -
कथं चानृतेनेति ।
धूलि­क­ल्पि­त­धू­मे­ना­नु­मि­तस्य वह्नेरिव प्रमे­य­बा­धा­प­त्ते­रिति भावः ।

तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामा­ण्य­मु­प­प­द्यत इत्याह -
अत्रोच्यत इत्यादिना ।
सत्यत्वं बाधाभावः । बाधो मिथ्या­त्व­नि­श्चयः ।

वस्तुतो मिथ्यात्वेऽपि विकारेषु तन्निश्चयाभावेन प्रत्य­क्षा­दि­व्य­व­हा­रो­प­प­त्ता­वु­क्त­दृ­ष्टान्तं विवृणोति -
यथा सुप्तस्य प्राकृतस्येति ।

एवं द्वैतप्रमाणानां व्यवहारकाले बाध­शू­न्या­र्थ­बो­ध­कत्वं व्यावहारिकं प्रामा­ण्य­मु­प­पाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाध­शू­न्य­ब्र­ह्म­बो­ध­कत्वं तात्त्विकं प्रामा­ण्य­मु­प­पा­द­यि­तु­मु­क्त­श­ङ्का­म­नु­व­दति -
कथं त्वसत्येनेति ।
किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न । आद्य इष्ट एव । न हि वयं वाक्योत्थज्ञानं सत्य­मि­त्य­ङ्गी­कुर्मः ।

अङ्गीकृत्यापि दृष्टान्तमाह -
नैष दोष इति ।
सर्पे­णा­द­ष्ट­स्यापि दष्ट­त्व­भ्रा­न्ति­क­ल्पि­त­वि­षा­त्स­त्य­म­र­ण­मू­र्च्छा­दि­द­र्श­ना­द­स­त्या­त्सत्यं न जायत इत्यनियम इत्यर्थः ।

दृष्टा­न्ता­न्त­र­माह -
स्वप्नेति ।
अस­त्या­त्स­र्पो­द­रादेः सत्यस्य दंश­न­स्ना­ना­दि­ज्ञा­नस्य कार्यस्य दर्श­ना­द्व्य­भि­चार इत्यर्थः ।

यथाश्रुतमादाय शङ्कते -
तत्कार्यमपीति ।

उक्तमर्थं प्रकटयति -
तत्र ब्रूम इत्यादिना ।
अवगतिर्वृत्तिः घटादिवत्सत्यापि प्राति­भा­सि­क­स्व­प्न­दृ­ष्ट­व­स्तुनः फलं चैतन्यं वा वृत्त्य­भि­व्य­क्त­म­व­ग­ति­श­ब्दार्थः ।

प्रस­ङ्गा­द्दे­हा­त्म­वा­दोऽपि निरस्त इत्याह -
एतेनेति ।
स्वप्नस्थावगतेः स्वप्न­दे­ह­ध­र्मत्व उत्थितस्य मया तादृशः स्वप्नोऽवगत इत्य­बा­धि­ता­व­ग­ति­प्र­ति­स­न्धानं न स्यात् । अतो देह­भे­देऽ­प्य­नु­स­न्धा­न­द­र्श­ना­द्दे­हा­न्योऽ­नु­स­न्धा­ते­त्यर्थः ।

असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह -
तथा च श्रुतिरिति ।
न च स्त्रियो मिथ्यात्वेऽपि तद्द­र्श­ना­त्स­त्या­देव सत्यायाः समृ­द्धे­र्ज्ञा­न­मिति वाच्यम् , विष­य­वि­शि­ष्ट­त्वेन दर्शनस्यापि मिथ्या­त्वा­त्प्र­कृ­तेऽपि सत्ये ब्रह्मणि मिथ्या­वे­दा­नु­ग­त­चै­त­न्या­ज्ज्ञा­न­स­म्भ­वा­च्चेति भावः ।

अस­त्या­त्स­त्य­स्ये­ष्टस्य ज्ञान­मु­क्त्वा­नि­ष्टस्य ज्ञानमाह -
तथेति ।

असत्यात्सत्यस्य ज्ञाने दृष्टा­न्ता­न्त­र­माह -
तथाकारादीति ।
रेखा­स्व­का­र­त्वा­दि­भ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसि­द्ध­मि­त्यर्थः । एव­म­स­त्या­त्स­त्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूट­लि­ङ्गा­नु­मि­त­व­ह्नि­व­दिति व्याप्तिर्भग्ना । तथा च कल्पितानामपि वेदान्तानां सत्य­ब्र­ह्म­बो­ध­कत्वं सम्भवतीति तात्त्विकं प्रामाण्यमिति भावः ।

यदु­क्त­मे­क­त्व­ना­ना­त्व­व्य­व­हा­र­सि­द्धये उभयं सत्यमिति, तन्न । भेदस्य लोक­सि­द्ध­स्या­पू­र्व­फ­ल­व­द­भे­द­वि­रो­धेन सत्य­त्व­क­ल्प­ना­यो­गात् । किञ्च यद्युभयोरेकदा व्यवहारः स्यात्तदा स्यादपि सत्यत्वम् । नैवमस्ति । एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात् , शुक्तिज्ञानेनेव रजतस्येत्याह -
अपि चान्त्यमिति ।

ननू­प­जी­व्य­द्वै­त­प्र­मा­ण­वि­रो­धा­दे­क­त्वा­व­ग­ति­र्नो­त्प­द्यत इत्यत आह -
न चेयमिति ।
तत्कि­ला­त्म­त­त्त्व­मस्य पितु­र्वा­क्या­त्श्वे­त­के­तु­र्वि­ज्ञा­त­वा­निति ज्ञानोत्पत्तेः श्रुत­त्वा­त्सा­म­ग्री­स­त्त्वा­च्चे­त्यर्थः । व्याव­हा­रि­क­गु­रु­शि­ष्या­दि­भे­द­मु­प­जीव्य ज्ञाय­मा­न­वा­क्या­र्था­व­गतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामा­ण्य­मु­प­जी­व्यम् , तच्च पार­मा­र्थि­कै­क­त्वा­व­गत्या न विरुध्यते । किन्तु तया विरो­धा­द­नु­प­जीव्यं प्रत्य­क्षा­दे­स्ता­त्त्विकं प्रामाण्यं बाध्यत इति भावः ।

किञ्चै­क­त्वा­व­गतेः फल­व­त्प्र­मा­त्वा­न्नि­ष्फलो द्वैतभ्रमो बाध्य इत्याह -
न चेयमिति ।

ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत् सत्य­मि­त्या­दि­र्लौ­किको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्का­लि­क­बा­धा­बा­धाभ्यां व्यवहारस्तथा दीर्घस्वप्न 'पीत्यु­क्त­स्व­प्न­दृ­ष्टान्तं स्मारयति -
प्राक्चेति ।

व्यवहारार्थे नानात्वं सत्यमिति कल्प­न­म­स­ङ्ग­त­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।

नेदं कल्पितम् , किन्तु श्रुतमिति शङ्कते -
नन्विति ।

कार्य­का­र­ण­यो­र­न­न्य­त्वां­शेऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूट­स्थ­त्व­श्रु­ति­वि­रो­धा­दिति परिहरति -
नेत्युच्यत इति ।

सृष्टौ परिणामित्वं प्रलये तद्राहित्यं च क्रमे­णा­वि­रु­द्ध­मिति दृष्टान्तेन शङ्कते -
स्थितीति ।

कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूट­स्थ­त्व­व्या­घा­ता­दि­त्याह -
नेति ।

कूट­स्थ­त्वा­सि­द्धि­मा­श­ङ्क्याह -
कूटस्थस्येति ।
कूटस्थस्य निरवयवस्य पूर्व­रू­प­त्या­गे­ना­व­स्था­न्त­रा­त्म­क­प­रि­णा­मा­यो­गा­च्छु­क्ति­र­ज­त­व­द्वि­वर्त एव प्रपञ्च इति भावः ।

किञ्च निष्फलस्य जगतः फल­व­न्नि­ष्प्र­प­ञ्च­ब्र­ह्म­धी­शे­ष­त्वे­ना­नु­वा­दान्न सत्यतेत्याह -
न च यथेत्यादिना ।

'तं यथा यथोपासते तदेव भवति' इति श्रुते­र्ब्र­ह्मणः परि­णा­मि­त्व­वि­ज्ञा­ना­त्त­त्प्रा­प्ति­र्वि­दुषः फल­मि­त्या­श­ङ्क्याह -
न हि परिणामवत्त्वेति ।
'ब्रह्म­वि­दा­प्नोति परम्' इति श्रुत­कू­ट­स्थ­नि­त्य­मो­क्ष­फ­ल­स­म्भवे दुःखा­नि­त्य­प­रि­णा­मि­त्व­फ­ल­क­ल्प­ना­यो­गा­दिति भावः ।

ननु पूर्वं 'जन्मा­द्यस्य यतः' इति ईश्व­र­का­र­ण­प्र­तिज्ञा कृता । अधुना तद­न­न्य­त्व­मि­त्य­न्ता­भे­द­प्र­ति­पा­दने ईशि­त्री­शि­त­व्य­भे­दा­भा­वा­त्त­द्वि­रोधः स्यादिति शङ्कते -
कूटस्थेति ।

कल्पि­त­द्वै­त­म­पे­क्ष्ये­श्व­र­त्वा­दिकं पर­मा­र्थ­तोऽ­न­न्य­त्व­मि­त्य­वि­रो­ध­माह -
नेत्यादिना ।
अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टि­स्त­द­पे­क्ष­त्वा­दी­श्व­र­त्वा­देर्न विरोध इत्यर्थः ।

सङ्गृहीतार्थं विवृणोति -
तस्मादित्यादिना ।

तत्वा­न्य­त्वा­भ्या­मिति ।
नाम­रू­प­यो­री­श्व­रत्वं वक्युमशक्यं जडत्वात् । नापी­श्व­रा­द­न्यत्वं कल्पितस्य पृथ­क्स­त्ता­स्फू­र्त्यो­र­भा­वा­दि­त्यर्थः ।

संस्का­रा­त्म­क­ना­म­रू­प­यो­र­वि­द्यै­क्य­वि­व­क्षया ब्रूते -
मायेति ।

नामरूपे चेदी­श्व­र­स्या­त्म­भूते तर्हीश्वरो जड इत्यत आह -
ताभ्यामन्य इति ।

अन्यत्वे व्याकरणे च श्रुतिमाह -
आकाश इत्यादिना ।

अवि­द्या­द्यु­पा­धिना कल्पितभेदेन बिम्ब­स्था­न­स्ये­श्व­र­त्वम् , प्रति­बि­म्ब­भू­तानां जीवानां निय­म्य­त्व­मि­त्याह -
स च स्वात्मभूतानिति ।
न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यम् , बुद्ध्या­दि­स­ङ्घा­त­भे­देन भेदोक्तेः । अवि­द्या­प्र­ति­बि­म्ब­स्त्वेक एव जीव इत्युक्तम् ।

परमार्थत ईश्व­र­त्वा­दि­द्वै­ता­भावे श्रुतिमाह -
तथा चेति ।

कथं तर्हि कर्तृ­त्वा­दि­क­मि­त्यत आह -
स्वभावस्त्विति ।
अनाद्यविद्यैव कर्तृ­त्वा­दि­रू­पेण प्रवर्तत इत्यर्थः ।

भक्ताभक्तयोः पाप­सु­कृ­त­ना­श­क­त्वा­दी­श्व­रस्य वास्त­व­मी­श्व­र­त्व­मि­त्यत आह -
नादत्त इति ।
न संहरतीत्यर्थः । तेन स्वरू­प­ज्ञा­ना­व­र­णेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।

उक्तार्थः सूत्रकारसम्मत इत्याह -
सूत्रकारोऽपीति ।

न केवलं लौकि­क­व्य­व­हा­रार्थं परि­णा­म­प्र­क्रि­या­श्र­यणं किन्तूपासनार्थं चेत्याह -
परि­णा­म­प्र­क्रियां चेति ।
तदुक्तम् 'कृपणाधीः परिणाममुदीक्षते क्षयि­त­क­ल्म­ष­धीस्तु विव­र्त­ताम्' इति ॥१४॥

एवं तदनन्यत्वे प्रत्य­क्षा­दि­वि­रोधं परि­हृ­त्या­नु­मा­न­माह -
भावे चेति ।
कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वा­दु­प­ल­ब्धे­श्चा­न­न्य­त्व­मिति सूत्रार्थः । घटो मृदनन्यः, मृत्स­त्त्वो­प­ल­ब्धि­क्ष­ण­नि­य­त­स­त्त्वो­प­ल­ब्धि­म­त्त्वा­त्मृ­द्वत् ।

अन्यत्वेऽप्ययं हेतुः किं न स्यादि­त्य­प्र­यो­ज­क­त्व­मा­शङ्क्य निरस्यति -
न चेति ।
मृद्घ­ट­यो­र­न्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः । गवा­श्व­यो­र्नि­मि­त्त­नै­मि­त्ति­क­त्वा­भा­वा­द्धे­त्व­भावः ।

अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नान­न्य­त्व­मि­त्य­र्था­न्त­र­ता­मा­श­ङ्का­यह -
न च कुलालेति ।
न चोपा­दा­नो­पा­दे­य­भा­वे­ना­र्था­न्त­रता, मृद्दृष्टान्ते तद्भावाभावेऽपि हेतु­स­त्त्वा­द­न्यत्वे गवा­श्व­व­त्त­द्भा­वा­यो­गा­च्चेति भावः । कुला­ल­घ­ट­यो­र्नि­मि­त्ता­दि­भावे सत्य­प्य­न्य­त्वात् कुला­ल­स­त्त्व­नि­य­तो­प­ल­ब्धि­र्घ­टस्य नैवे­त्य­क्ष­रार्थः ।

यथा­श्रु­त­सू­त्र­स्थ­हे­तो­र्व्य­भि­चारं शङ्कते -
नन्विति ।

अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह -
नेति ।

अवि­च्छि­न्न­मू­ल­दी­र्ध­रे­खा­व­स्थ­धूमे नियमोऽस्तीति व्यभिचार इत्याशङ्कते -
अथेति ।

तद्भा­व­नि­य­त­भा­वत्वे सति तद्बु­द्ध्य­नु­र­क्त­बु­द्धि­वि­ष­य­त्वस्य हेतो­र्वि­व­क्षि­त­त्वान्न व्यभिचार इत्याह -
नैवमिति ।
आलो­क­बु­द्ध्य­नु­र­क्त­बु­द्धि­ग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् । आलोकाभावेऽपि घटा­दि­रू­प­स­त्त्वान्न व्यभिचारः । उक्त­धू­म­वि­शे­ष­स्या­ग्नि­बुद्धिं विना­प्यु­प­ल­म्भान्न तत्र व्यभिचार इत्यर्थः । तथा च तयोः कार्य­का­र­ण­यो­र्भा­वेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः । यद्वा । तद्भावः सामानाधिकरण्यं तद्वि­ष­य­क­बु­द्धि­ग्रा­ह्यत्वं हेतुं वदामः । मृद्घट इति सामा­ना­धि­क­र­ण्य­बु­द्धि­द­र्श­ना­द­ग्नि­धूर्म इत्य­द­र्श­ना­दि­त्यर्थः ।

अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे -
भावाच्चेति ।
पूर्व­सू­त्रो­क्ता­र­म्भ­ण­श­ब्द­स­मु­च्च­या­र्थ­श्च­कारः । न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणम् , अपृ­थ­क्स­त्ता­क­मि­थ्या­का­र्य­वि­ष­य­त्वे­ना­प्यु­प­पत्तेः । अत आता­न­वि­ता­न­सं­यो­ग­व­न्त­स्त­न्तव एव पट इति प्रत्य­क्षो­प­लब्धेः सत्त्वा­द­न­न्य­त्व­मि­त्यर्थः ।

पटन्यायं तन्त्वा­दा­व­ति­दि­शति -
तथेत्यादिना ।
प्रत्य­क्षो­प­लब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।

यत्र प्रत्यक्षं नास्ति तत्र कार्ये विम­त­का­र­णा­द­भि­न्नम् , कार्यत्वात् , पट­व­दि­त्य­नु­मे­य­मि­त्याह -
अनयेति ।

कारणपरिशेषे प्रधानादिकं परिशिष्यताम् , न ब्रह्मेत्यत आह -
तत्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्प­र्य­स्यो­क्त­त्वा­त्त­दे­वा­द्वि­तीयं परिशिष्यते न कार­णा­न्त­र­म­प्रा­मा­णि­क­त्वा­दिति भावः ॥१५॥

इदं जगत्सदात्मैवेति सामा­ना­धि­क­र­ण्य­श्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतम् , तद­न्य­था­नु­प­प­त्त्यो­त्प­न्न­स्यापि जगतः कार­णा­द­न­न्य­त्व­मि­त्याह सूत्रकारः -
सत्त्वाच्चेति ।

श्रुत्यर्थे युक्तिमप्याह -
यच्च यदात्मनेति ।
घटादिकं प्राग्मृ­दा­द्या­त्मना वर्तते तत उत्प­द्य­मा­न­त्वा­त्सा­मा­न्यतो व्यतिरेकेण सिक­ता­भ्य­स्तै­ल­व­दि­त्यर्थः ।

कार­ण­व­त्का­र्य­स्यापि सत्त्वा­त्स­त्त्व­भेदे माना­भा­वा­त्का­र्यस्य कार­णा­द­भि­न्न­स­त्ता­क­त्व­मिति सूत्र­स्या­र्था­न्त­र­माह -
यथा चेति ।
इदानीं सतः कार्यस्य प्रागु­त्त­र­का­ल­यो­र­स­त्त्वा­यो­गा­त्स­त्त्वा­व्य­भि­चारः । तच्च सत्त्वं सर्वा­नु­स्यू­त­चि­न्मा­त्र­मे­कम् । तदभेदेन सती मृत्सन् घट इति भासमानयोः कार्य­का­र­ण­यो­र­न­न्य­त्व­मि­त्यर्थः ॥१६॥ न चैवं घट­प­ट­यो­र­प्यै­क­स­त्त्वा­भे­दा­द­न­न्यत्वं स्यादिति वाच्यम् , वस्तुत एक­स­त्त्वा­त्म­ना­न­न्य­त्व­स्ये­ष्ट­त्वात् । तर्हि मृद्घटयोः को विशेषः । तादात्म्यमिति ब्रूमः । वस्तुतः सर्वत्र सत्तैक्येऽपि घटपटयोर्भेदेन सत्ताया भिन्नत्वान्न तादात्म्यम् , कार्य­का­र­ण­यो­र्भे­दस्य सत्ता­भे­द­क­त्वा­भा­वा­द­भि­न्न­स­त्ता­कत्वं तादात्म्यमिति विशेषः ॥१६॥

उक्तं कार्यस्य प्राक्का­र­णा­त्मना सत्त्व­म­सि­द्ध­मि­त्या­शङ्क्य समाधत्ते -
असदिति ।
'अक्ताः शर्करा उपदध्यात्' इत्युपक्रमे केनाक्ता इति सन्देहे 'तेजो वै घृतम्' इति वाक्य­शे­षा­द्धृ­ते­नेति यथा निश्चयः, एवमत्रापि 'तत्सत्' इति वाक्य­शे­षा­त्स­न्नि­श्चय इत्यर्थः ।

आसी­दि­त्य­ती­त­का­ल­स­म्ब­न्धो­क्ते­श्चा­स­द­व्या­कृ­त­मेव न शून्यमित्याह -
असतश्च पूर्वापरेति ।

उक्तन्यायं वाक्या­न्त­रेऽ­ति­दि­शति -
असद्वेति ।
क्रिय­मा­ण­त्व­वि­शे­षणं शून्य­स्या­स­म्भ­वीति भावः ॥१७॥

सत्त्वा­न­न्य­त्व­यो­र्हे­त्व­न्त­र­माह सूत्रकारः -
युक्तेरिति ।
दध्याद्यर्थिनां क्षीरादौ प्रवृ­त्त्य­न्य­था­नु­प­प­त्ति­र्यु­क्ति­स्तया कार्यस्य प्राक्का­र­णा­न­न्य­त्वेन सत्त्वं सिध्यतीत्यर्थः ।

असतोऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृ­त्ति­रि­त्य­न्य­थो­प­प­त्ति­मा­श­ङ्क्याह -
अविशिष्टे हीति ।
असत उत्प­त्त्य­भा­वा­दु­त्पत्तौ वा सर्व­स्मा­त्स­र्वो­त्प­त्ति­प्र­स­ङ्गा­त्त­त्त­दु­पा­दा­न­वि­शेषे प्रवृत्तिर्न स्यादित्यर्थः । तदुक्तं साङ्ख्यवृद्धैः 'अस­द­क­र­णा­दु­पा­दा­न­ग्र­ह­णा­त्स­र्व­स­म्भ­वा­भा­वात् । शक्तस्य शक्य­क­र­णा­त्का­र­ण­भा­वाच्च सत्का­र्यम्' इति । शक्तस्य कारणस्य शक्य­का­र्य­का­रि­त्वा­च्छ­क्ति­वि­ष­यस्य कार्यस्य सत्त्व­म­स­तोऽ­श­क्य­त्वात् । किञ्च सत्का­र­णा­भे­दा­त्कार्यं सदि­त्यु­त्त­रा­र्धार्थः ।

कार्य­स्या­स­त्त्वेऽपि कुत­श्चि­द­ति­श­या­त्प्र­वृ­त्ति­नि­य­मो­प­प­त्ति­रिति शङ्कते -
अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।

आद्ये धर्मि­त्वा­त्प्रा­ग­व­स्था­रू­पस्य कार्यस्य सत्त्वं दुर्वारमित्याह -
तर्ह्य­ति­श­य­व­त्त्वा­दिति ।

द्वितीयेऽपि कार्य­स­त्त्व­मा­या­ती­त्याह -
शक्तिश्चेति ।
कार्य­का­र­णा­भ्या­मन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा निया­म­क­त्व­प्र­स­ङ्गा­द­न्य­त्वा­स­त्त्वयोः शक्तावन्यत्र चाविशेषात् । तस्मा­त्का­र­णा­त्मना लीनं कार्य­मे­वा­भि­व्य­क्ति­नि­या­म­क­तया शक्ति­रि­त्ये­ष्ट­व्यम् , ततः सत्का­र्य­सि­द्धि­रि­त्यर्थः ।

किञ्च कार्य­का­र­ण­यो­र­न्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह -
अपि चेति ।

तयोरन्यत्वेऽपि समवायवशात्तथा बुद्धि­र्नो­दे­ती­त्या­शङ्क्य समवायं दूषयति -
समवायेति ।
समवायः समवायिभिः सम्बद्धोन न वा । आद्ये स सम्बन्धः किं समवायः उत स्वरूपम् । आद्ये समवायानवस्था । द्वितीये मृद्घटयोरपि स्वरू­प­स­म्ब­न्धा­दे­वो­प­पत्तेः समवायासिद्धिः ।

असम्बद्ध इति पक्षे दोषमाह -
अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशि­ष्ट­धी­वि­र­ह­प्र­सङ्गः । असम्बद्धस्य विशि­ष्ट­धी­नि­या­म­क­त्वा­यो­गा­दि­त्यर्थः ।

विशि­ष्ट­धी­नि­या­मको हि सम्बन्धः, न तस्य निया­म­का­न्त­रा­पेक्षा, अनवस्थानात् , अतः स्वपरनिर्वाहकः समवाय इति शङ्कते -
अथेति ।
सम्बध्यते । स्वस्य स्वसम्बन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।

प्रतिबन्द्या दूषयति -
संयोगोऽपीति ।
यत्तु गुण­त्वा­त्सं­यो­गस्य समवायापेक्षा न सम्ब­न्ध­त्वा­दिति, तन्न, धर्मत्वात् समवायस्यापि सम्ब­न्धा­न्त­रा­प­त्ते­र­स­म्ब­द्ध­स्या­श्व­त्वस्य गोध­र्म­त्वा­द­र्श­नात् । किञ्च 'निष्पा­प­त्वा­दयो गुणाः' इति श्रुति­स्मृ­त्या­दिषु 'व्यव­हा­रा­दि­ष्ट­धर्मो गुणः' इति परिभाषया समायस्यापि गुणत्वाच्च । 'जाति­वि­शेषो गुणत्वम्' इति परिभाषा तु सम­वा­य­सि­ध्यु­त्त­र­का­लीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य सम­वा­य­ज्ञा­ना­धी­न­त्वात् । अतः समवायसिद्धेः प्राक्संयोगस्य गुण­त्व­म­सि­द्ध­मिति दिक् । किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आल­म्ब­न­मि­त्य­स्यापि सुवचत्वात् ।

तथा च मृद्घट इत्य­भे­द­प्र­ती­ते­र­भेद एव स्वीकार्यः, ताभ्या­म­त्य­न्त­भि­न्नस्य समवायस्य तन्नि­या­म­क­त्वा­स­म्भ­वा­दि­त्याह -
तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वम् , स्वरूपेण तु मिथ्या­त्मे­त्यु­क्तम् ।

वृत्त्य­नि­रू­प­णाच्च तस्य मिथ्या­त्व­मि­त्याह -
कथं चेति ।

तत्रा­द्य­म­नू­द्य­व­य­विनः पटा­दे­स्त­न्त्वा­दि­ष्व­व­य­वेषु त्रित्वा­दि­व­त्स्व­रू­पेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति -
यदीत्यादिना ।
व्यास­ज्य­वृ­त्ति­व­स्तु­प्र­त्य­क्षस्य याव­दा­श्र­य­प्र­त्य­क्ष­ज­न्य­त्वा­त्सं­वृ­त­प­टा­दे­र्या­व­द­व­य­वा­ना­म­प्र­त्य­क्ष­त्वा­द­प्र­त्य­क्षत्वं प्रस­ज्ये­ते­त्यर्थः ।

द्वितीयं शङ्कते -
अथेति ।

यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्त­मा­त्र­ग्र­हेऽपि गृह्यते, एवं यत्कि­ञ्चि­द­व­य­व­ग्र­हे­णा­व­य­विनो ग्रह­स­म्भ­वेऽ­प्य­व­य­वा­ना­म­न­वस्था स्यादिति दूषयति -
तदापीति ।

आद्य­द्वि­ती­य­मु­द्भाव्य दूषयति -
अथ प्रत्य­व­य­व­मि­त्या­दिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात् , वृत्ता­व­ने­क­त्वा­प­त्ते­रि­त्यर्थः ।

यथा युग­प­द­ने­क­व्य­क्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते -
गोत्वेति ।

जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति -
न, तथेति ।

दोषान्तरमाह -
प्रत्येकेति ।
अधि­का­रा­त्स­म्ब­न्धात् । यथा देवदत्तः स्वकार्यमध्ययनं ग्रामेऽरण्ये वा करोति, तथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्ग­पु­च्छा­दा­वपि कुर्यादित्यर्थः । एवं वृत्त्य­नि­रू­प­णा­द­नि­र्वा­च्यत्वं कार्यस्य दर्शितम् ।

सम्प्र­त्य­स­त्का­र्य­वादे दोषान्तरमाह -
प्रागिति ।
यथा घट­श्च­ल­ती­त्युक्ते चलनक्रियां प्रत्या­श्र­य­त्व­रूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनि­क्रि­या­क­र्तृ­त्व­म­नु­भू­यते । अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् । कर्तुरसत्त्वे क्रियाया अप्य­स­त्त्वा­प­त्ते­रि­त्यर्थः ।

जने­र­नु­भ­व­सि­द्धेऽपि सकर्तृकत्वे क्रिया­त्वे­ना­नु­मा­न­माह -
उत्पत्तिश्चेति ।

असतो घटस्योत्पत्तौ कर्तृ­त्वा­स­म्भ­वेऽपि कुलालादेः सत्त्वा­त्क­र्तृ­त्व­मि­त्या­श­ङ्क­याह -
घटस्य चेति ।

घटो­त्प­त्ति­व­द­स­त्क­पा­ला­द्यु­त्प­त्ति­रि­त्य­ति­दि­शति -
तथेति ।

शङ्कामनूद्य दोषमाह -
तथा चेति ।
अनुभवविरोध इत्यर्थः ।

उत्प­त्ति­र्भा­व­स्या­द्या­वि­क्रि­येति स्वमतेन कार्य­स­त्त्व­मा­नी­तम् , सम्प्रति कार्य­स्यो­त्प­त्ति­र्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्कि­क­म­त­मा­श­ङ्कते -
अथेति ।

तन्मतेनापि कार्यस्य सत्त्वमावश्यकम् , असतः सम्ब­न्धि­त्वा­यो­गा­दि­त्याह -
कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।

ननु नर­शृ­ङ्गा­दि­व­त्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक्ध्वं­सा­न­न्तरं चासत्मध्ये तु सदेवेति वैष­म्या­त्स­म्ब­न्धि­त्वो­प­प­त्ति­रि­त्या­श­ङ्क्याह -
अभावस्येति ।
अत्राभावशब्दा अस­च्छ­ब्दा­प­र­प­र्याया व्याख्येयाः । असतः काले­ना­स­म्ब­न्धा­त्प्राक्त्वं न युक्तमित्यर्थः ।

ननु कार­क­व्या­पा­रा­दू­र्ध्व­भा­विनः कार्यस्य वन्ध्या­पु­त्र­तु­ल्यत्वं कथमित्यत आह -
यदि चेति ।
कार्या­भा­वोऽ­स­त्का­र्य­मि­त्यर्थ इत्युपापत्स्यत उप­प­न्न­म­भ­वि­ष्य­दि­त्य­न्वयः ।

कस्तर्हि निर्णयः, तत्राह -
वयं त्विति ।
'नासतो विद्यते भावः' इति स्मृतेरिति भावः ।

सत्कार्यवादे कारकवैयर्थ्यं शङ्कते -
नन्विति ।

सिद्ध­का­र­णा­न­न्य­त्वाच्च कार्यस्य सिद्धत्वमित्याह -
तद­न­न्य­त्वा­च्चेति ।

अनि­र्वा­च्य­का­र्या­त्मना कार­ण­स्या­भि­व्य­क्त्यर्थः कारकव्यापार इत्याह -
नैष दोष इति ।
कार्य­स­त्य­त्व­मि­च्छतां साङ्ख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् । अद्वैतवादिनां त्वघ­टि­त­घ­ठ­ना­व­भा­सन चतुरमायामहिम्ना स्वप्न­व­द्य­था­द­र्शनं सर्वमुपपन्नम् । विचार्यमाणे सर्वमयुक्तम् , युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समा­धा­ना­न्त­रा­भा­वात् ।

ननु कार­णा­द्भि­न्न­म­स­दे­वो­त्प­द्यत इति समाधानं किं न स्यादि­त्या­श­ङ्क्या­स­त्प­क्षस्य दूषणमुक्तं स्मरेत्याह -
कार्याकारोऽपीति ।
अतः कार­णा­द्भे­दा­भे­दाभ्यां दुर्निरूपस्य सद­स­द्वि­ल­क्ष­ण­स्या­नि­र्वा­च्या­भि­व्य­क्ति­र­नि­र्वा­च्य­का­र­क­व्या­पा­राणां फलमिति पक्ष एव श्रेयानिति भावः ।

ननु मृद्यदृष्टः पृथु­बु­ध्न­त्वा­द्य­व­स्था­वि­शेषो घटे दृश्यते । तथा च घटो मृद्भिन्नः, तद्वि­रु­द्ध­वि­शे­ष­व­त्त्वात् , वृक्षवदित्यत आह -
न चेति ।
वस्तुतोऽन्यत्वं सत्यो भेदः ।

हेतो­र्व्य­भि­चा­र­स्थ­ला­न्त­र­माह -
तथा प्रतिदिनमिति ।
प्रत्यहं पित्रा­दि­दे­ह­स्या­व­स्था­भे­देऽपि जन्म­ना­श­यो­र­भा­वा­द­भेदो युक्तः ।

दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्म­वि­ना­श­रू­प­वि­रु­द्ध­ध­र्म­व­त्त्वा­त्का­र्य­का­र­ण­यो­र­भेदो न युक्त इति शङ्कते -
जन्मेति ।

कारणस्य नाशा­भा­वा­द्धे­त्व­सि­द्धि­रिति परिहरति -
नेति ।
दधि­घ­टा­दि­का­र्या­न्वि­त­त्वेन क्षीरमृदादीनां प्रत्य­क्ष­त्वा­न्ना­शा­सि­द्धि­रि­त्यर्थः ।

ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वट­बी­जा­दी­ना­म­न्वयो न दृश्यते तत्र हेतु­स­त्त्वा­द्व­स­त्व­न्यत्वं स्यादित्यत आह -
अदृश्येति ।
तत्रा­प्य­ङ्कु­रादौ बीजा­द्य­व­य­वा­ना­म­न्व­यान्न स्त एव जन्मविनाशौ किन्त्व­व­या­न्त­रो­प­च­या­प­च­याभ्यां तद्व्यवहार इत्यर्थः ।

अस्तू­प­च­या­प­च­य­लि­ङ्गेन वस्तुभेदानुमानं ततोऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह -
तत्रेदृगिति ।

पितृदेहेऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह -
पित्रादीति ।

एतेनेति ।
कारणस्य सर्व­का­र्ये­ष्व­न्व­य­क­थ­ने­ने­त्यर्थः ।

स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति -
यस्य पुनरिति ।

असतः कार्यस्य कार­क­व्या­पा­रा­हि­ता­ति­श­या­श्र­य­त्वा­यो­गा­द­वि­ष­य­त्वेऽपि मृदा­दे­र्वि­ष­यत्वं स्यादिति शङ्कते -
समवायीति ।

सम­वा­यि­का­र­णा­त्कार्यं भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -
नेत्यादिना ।

द्विती­य­मा­श­ङ्क्ये­ष्टा­प­त्ति­माह -
समवायीति ।

कार्या­णा­म­वा­न्त­र­का­र­णा­न­न्य­त्व­मु­प­सं­ह­रति -
तस्मादिति ।

पर­म­का­र­णा­न­न्यत्वं फलितमाह -
तथा मूलेति ।

असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह -
यदि तु प्रागु­त्प­त्ते­रिति ॥१८॥

कार्य­मु­पा­दा­ना­द्भिन्नं तदु­प­ल­ब्धा­व­प्य­नु­प­ल­भ्य­मा­न­त्वा­त्त­तोऽ­धि­क­प­रि­मा­ण­त्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम् -
पटवच्चेति ।

द्विती­य­हे­तो­र्व्य­भि­चारं स्फुटयति -
यथा च संवेष्टनेति ।
आयामो दैर्घ्यम् ॥१९॥

तत्रैव विल­क्ष­ण­का­र्य­का­रित्वं कार्य­मु­पा­दा­ना­द्भि­न्नम् , भिन्न­का­र्य­क­र­त्वात् , सम्मतवदिति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः -
यथा च प्राणादीति ।

एवं जीव­ज­ग­ते­र्ब्र­ह्मा­न­न्य­त्वा­त्प्र­ति­ज्ञा­सि­द्धि­रि­त्य­धि­क­र­णा­र्थ­मु­प­प­सं­ह­रति -
अतश्च कृत्स्नस्येति ॥२०॥