भाष्यरत्नप्रभाव्याख्या
व्यतिहाराधिकरणम्
व्यतिहारः ।
जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः । तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः । एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः ।
उक्तदोषं स्मारयति -
नन्विति ।
संदिग्धेऽर्थे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपेऽपि निकर्षप्रसक्त्यभावादिति परिहरति -
नैष दोष इति ।
ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते -
नन्वेवमिति ।
मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते -
न वयमिति ।
अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह -
तस्मादिति ॥३७॥