अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

शिष्टापरिग्रहाधिकरणम्

ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः । स किं यद्विभु तन्न द्रव्यो­पा­दा­न­मिति वैशे­षि­का­दि­न्या­येन विरुध्यते न वेति सन्देहे साङ्ख्य­वृ­द्धानां तर्का­कु­श­ल­म­ति­त्वेऽपि वैशेषिकादीनां तर्क­म­ति­कु­श­ल­त्व­प्र­सि­द्धे­स्त­दी­य­न्या­य­स्या­बा­धि­त­त्वा­द्वि­रु­ध्यत इति प्रत्युदाहरणेन प्राप्तेऽ­ति­दि­शति -
एतेनेति ।
फलं पूर्ववत् ।

ननु साङ्ख्य­म­त­स्यो­प­दे­श­स्ता­र्कि­क­म­त­स्या­ति­देशः किमिति कृतो वैपरीत्यस्यापि सम्भ­वा­दि­त्या­शङ्क्य पूर्वो­त्त­रा­धि­क­र­ण­यो­रु­प­दे­शा­ति­दे­श­भावे कारणमाह -
वैदिकस्येति ।
सत्का­र्य­त्वा­त्मा­स­ङ्ग­त्व­स्व­प्र­का­श­त्वा­द्यं­शै­र्वे­दा­न्त­शा­स्त्रस्य प्रत्यासन्नः प्रधानवादः शिष्टै­र्दे­ब­ला­दिभिः सत्का­र्य­त्वां­शेन स्वीकृत इति प्रब­ल­त्वा­दु­प­देशः । अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्ब­ल­त्वा­द­ति­देश इति भावः ।

किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह -
तुल्यत्वादिति ।

कारणमेवाह -
तुल्यमिति ।
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुते­रु­प­जी­व्य­त्वा­त्तया बाधः । महा­प­रि­मा­ण­व­त्त्वस्य सर्व­सं­यो­गि­क­त्व­रू­प­वि­भु­त्वस्य निर्गुणे ब्रह्म­ण्य­सि­द्धे­श्चेति द्रष्टव्यम् । अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम् ॥१२॥