भाष्यरत्नप्रभाव्याख्या
व्याप्त्यधिकरणम्
व्याप्तेश्च समञ्जसम् ।
सामानाधिकरण्यं विषयीकृत्य संशयमाह -
ओमित्येतदिति ।
अध्यासादिपदार्थान्व्याचष्टे -
तत्राध्यास इत्यादिना ।
बुद्धिपूर्वकाभेदारोपोऽध्यासः, बाधोऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः ।
पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति -
तत्रेति ।
अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे -
चशब्द इत्यादिना ।
पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह -
तत्राध्यास इति ।
यस्योद्गीथस्य बुद्धिरोङ्कारेऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धोऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः ।
फलं न कल्प्यमिति शङ्कते -
श्रूयत इति ।
आप्त्यादीति ।
'ओङ्कार आप्तिः समृद्धिरिति' 'य उपास्ते स कामानाप्नोति' इति श्रुतं फलं नाध्यासस्येत्यर्थः ।
उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह -
न च कदाचिदपीति ।
भ्रान्तिश्चेत्निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः ।
किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह -
न चेति ।
घटकुम्भशब्दयोरिवोङ्कारोद्गीथशब्दयोः पर्यायत्वपक्षं दूषयति -
नापीति ।
पर्यायत्वमपि नास्तीत्याह -
न चेति ।
परिशिष्टविशेषणपक्षे सूत्रं योजयति -
व्याप्तेरिति ।
'ओमित्यक्षरमुपासीत' इत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः । अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा, अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च । नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् । इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्पनालाघवादिति सिद्धम् ॥९॥