अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

लिङ्गभूयस्त्वाधिकरणम्

लिङ्ग­भू­य­स्त्वात् ।
उत्पत्तेः प्रागिदं सर्वं नैव सदा­सी­न्ना­प्य­स­दि­त्यु­प­क्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मा­न­मै­क्ष­ते­ती­क्ष­ण­पू­र्व­क­म­ग्नी­न­प­श्य­दिति मनोऽधिकृत्य पठन्तीत्यर्थः ।

पुरुषायुष्ट्वेन कॢप्त­श­त­व­र्षा­न्त­र्गतैः षट्र­त्रिं­श­त्स­ह­स्रै­र­हो­रा­त्रै­र­व­च्छि­न्न­तया मनो­वृ­त्ती­ना­म­स­ङ्ख्ये­या­ना­मपि षट्त्रिं­श­त्स­ह­स्र­त्वम् । ताभि­रि­ष्ट­का­त्वेन कल्पि­ता­भि­र्म­न­सैव संपादिता अग्नयो मन­श्चि­त­स्ता­न­र्का­न्पू­ज्या­न्म­नो­म­या­न्म­नो­वृ­त्ति­षु­सं­पा­दि­ता­ना­त्मनः स्वस्य संबन्धित्वेन मनोऽपश्यत्, तथा वाक्प्रा­णा­द­योऽपि स्वस्व­वृ­त्ति­रू­पा­न­ग्नी­न­प­श्य­न्नि­त्याह -
तथेति ।

प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्नि­स्त्व­क्पू­र्व­त्रा­ग्नि­च­य­न­प्र­क­र­णा­त्कि­मे­तेऽ­ग्नयः क्रत्वर्था उत प्राधा­न्य­ज्ञा­प­क­लि­ङ्गा­दि­भू­य­स्त्वा­त्पु­रु­षार्था वेति संशयमाह -
तेष्विति ।
केव­ल­वि­द्या­त्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः ।

एक­प्र­यो­गा­सं­भ­वा­द्वा­यु­प्रा­ण­यो­र्ध्या­न­प्र­यो­ग­भे­दोऽस्तु, इह तु मन­श्चि­दा­द्य­ग्नीनां प्रक­र­णा­त्क­र्मा­ङ्ग­त्वे­नै­क­प्र­यो­ग­त्व­मिति प्रापय्य सिद्धा­न्त­मु­प­क्र­मते -
तत्रेत्यादिना ।
पूर्वपक्षे भावनाग्नीनां क्रत्व­ङ्ग­त्व­मिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु । सिद्धान्ते पुरु­षा­र्थ­त्व­मिति फलम् ।

तत्तत्र सर्व­प्रा­णि­म­नो­वृ­त्ति­भि­र्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित्मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्कि­ञ्चि­त्क­र­णेन सिद्ध्य­द­र्श­ना­दि­त्याह -
तद्यदिति ।
एवंविदे स्वपते जाग्रतेऽपि तदी­या­ग्नी­न्भू­तानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदि­त­का­ला­नु­ष्ठे­यस्य सदा सर्वै­र­नु­ष्ठी­य­मा­न­त्वा­यो­गा­दि­त्यर्थः । षट्त्रिं­श­त्स­ह­स्र­सं­ख्या­प्य­न­ङ्गत्वे लिङ्ग­मे­व­ञ्जा­ती­य­क­प­दे­नो­क्तम् ॥४४॥

एवं सिद्धा­न्त­मु­प­क्रम्य पूर्वपक्षयति -
पूर्वेति ।
पूर्व­स्ये­ष्ट­का­भि­रग्निं चिनुत इत्युक्तस्य स एष त्विष्ट­का­ग्नि­रिति संनिहितस्यायं विक­ल्प­वि­शे­षो­प­देशः संक­ल्प­म­य­त्वा­ख्य­प्र­का­र­भे­दो­प­देशः क्रिया­ग्नि­व­त्सां­क­ल्पि­का­ग्न­योऽ­प्य­ङ्ग­मिति यावत् ।

किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा । आद्यमङ्गीकरोति -
सत्यमिति ।

न द्वितीय इत्याह -
लिङ्गमिति ।
मान­सा­ग्नि­वि­ध्य­र्थ­वा­द­स्थ­लि­ङ्गानां स्वार्थ­प्रा­प­क­मा­ना­भा­वा­द्दौ­र्ब­ल्य­मि­त्यर्थः ।

सूत्र­स्थ­क्रि­या­पदं व्याचष्टे -
तस्मादिति ।

ननु अक्रि­या­रू­पा­ग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह -
मानसवदिति ।
द्वाद­शा­ह­स्या­द्य­न्ता­ह­र्द्वयं त्यक्त्वा मध्य­स्थ­द­श­रा­त्र­स्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्माणामेव तेष्व­ति­दे­शा­त्तस्य मध्यदशरात्रस्य दश­मेऽ­ह­न्य­र्था­दे­का­द­शेऽ­हनि मानसग्रहः श्रूयते 'अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णाति' इति । अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावि­त­म­ध्व­र्यु­र्गृ­ह्णा­ती­त्यर्थः । अत एवर्त्विजां ध्यायितया विवि­ध­वा­क्यो­च्चा­र­णा­भा­वा­द­वि­वा­क्य­संज्ञा अह्नः प्राप्ता । ग्रहणं नाम सोम­पा­त्र­स्यो­पा­दानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुत­शे­षा­दा­न­मा­ह­रणं शेष­भ­क्ष­णा­य­र्त्विजां मिथोऽ­नु­ज्ञा­न­क­र­ण­मु­प­ह्वानं ततो भक्षणमित्येतानि मान­सा­न्ये­वे­त्यर्थः ।

स च मानसो ग्रहो द्वाद­शा­हा­द­ह­र­न्तरं स्वत­न्त्र­मि­त्या­श­ङड्क्य द्वाद­शा­ह­सं­ज्ञा­वि­रो­धा­न्ना­ह­र­न्तरं किन्तु प्रक­र­णा­द­वि­वा­क्य­स्या­ह्नोऽ­ङ्ग­मिति सिद्धान्तमाह -
स चेति ।
कल्पः कल्पनाप्रकारः । केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दश­मेऽ­ह­न्य­वि­वा­क्य­सं­ज्ञके मान­स­ग्र­ह­स्या­ति­दे­श­प्रा­प्त­त­या­ङ्ग­त्वा­दि­त्याहुः ॥४५॥

मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह -
अतिदेशाच्चेति ।
क्रिया­ङ्ग­त्व­सा­दृ­श्या­द­ति­देश इत्यर्थः ॥४६॥

सिद्धान्तमाह -
विद्येति ॥४७॥
न श्रुति­लि­ङ्ग­वाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः ॥४८॥

तत्रा­व­धा­र­ण­श्रु­ते­र­न्य­था­सिद्धिं शङ्कते -
नन्वबाह्येति ।

विद्याचित इति­प­दे­नै­वा­बा­ह्य­सा­ध­न­त्वस्य लब्धत्वादवधारणं व्यर्थमित्याह -
नेति ।

तर्हि कथ­म­स्या­र्थ­वत्त्वं तत्राह -
अबाह्येति ।

लिङ्गं व्यनक्ति -
तथेति ।

अग्नीनां सर्व­का­ल­व्या­पि­त्वे­ना­न­ङ्गत्वे दृष्टान्तमाह -
यथेति ।
तदा ध्यानकाल इत्यर्थः । होमे यथा सातत्यमुच्यते तद्वदग्नीनां सात­त्य­द­र्श­न­मि­त्य­न्वयः ।

यदु­क्त­म­र्थ­वा­द­स्थ­त्वा­ल्लिङ्गं दुर्बलमिति तन्न । सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्याये­दि­त्य­पू­र्वा­र्थ­तया विधिकल्पनात् । तथा च विधि­वा­क्य­स्थ­त्वा­ल्लिङ्गं प्रक­र­णा­द्ब­ल­वा­दि­त्याह -
न चेदमित्यादिना ।
एतेनेति विधि­त्वे­ने­त्यर्थः ।

वाक्यं विवृणोति -
तथेति ॥४९॥

संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तद­न्य­था­नु­प­प­त्त्या­प्य­ग्नीनां पुरुषार्थत्वं क्रत्व­र्थ­त्वेऽ­ङ्गानां सिद्धत्वेन संपा­द­ना­नु­प­प­त्ते­रि­त्याह -
इतश्चेत्यादिना ।
ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः । कालस्य छन्दस्यनियमात् । अचीयन्त इष्टकाश्चेतव्या इत्यर्थः । ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्कि­ञ्चि­द्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञ­स्व­रू­पो­त्पा­दकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः ।

वृत्ति­ष्व­ग्नि­ध्या­नस्य क्रिया­न­ङ्ग­त्वेऽ­प्यु­द्गी­थ­ध्या­न­व­त्क्रि­या­ङ्गा­श्रि­तत्वं स्यान्नेत्याह -
न चात्रोद्गीथेति ।

अङ्गा­व­ब­द्ध­श्रु­ति­तोऽस्याः श्रुते­र्वै­रूप्यं स्फुटयति -
न हीति ।
अनङ्गवृत्तिषु साङ्ग­क्र­तु­सं­पा­दनं पुरुषस्य यज्ञ­त्व­ध्या­न­व­त्स्व­त­न्त्र­मि­त्यर्थः ।

अना­द­रा­र्थोऽ­ति­देशो न भवति किन्तु विकल्पार्थ इत्यत आह -
न चेति ।
एकस्मिन्साध्ये निर­पे­क्ष­सा­ध­न­यो­र्वि­कल्पो भवति यथा व्रीहियवयोरत्र तु क्रिया­ग्ने­र्ध्या­ना­ग्नीनां साध्यभेदान्न विकल्प इत्यर्थः । अत एव समुच्चयोऽपि निरस्तः ।

यदुक्तं क्रिया­ङ्ग­त्व­सा­मा­न्ये­ना­ति­देश इति तन्नेत्याह -
यत्त्विति ।

सूत्रे बहुवचनार्थमाह -
श्रुत्यादीनि चेति ।
अनु­ब­न्धा­ति­दे­श­श्रु­ति­लि­ङ्ग­वा­क्येभ्य इत्यर्थः ।

एवमिति ।
अर्थ इति शेषः ।

मनश्चिदादीनां स्वातन्त्र्ये क्रिया­प्र­क­र­णा­दु­त्कर्षः स्यादि­त्या­शङ्क्य स इष्ट इत्याह -
दृष्टश्चेति ।
एकादशे चिन्तितं 'राजा स्वाराज्यकामो राजसूयेन यजेत' इति प्रकृ­त्या­वे­ष्टि­र्नाम काचि­दि­ष्टि­रा­म्नाता 'आग्ने­योऽ­ष्टा­क­पालो हिरण्यं दक्षिणा', 'बार्ह­स्पत्यं चरुं शितिपृष्ठो दक्षिणा', 'ऐन्द्र­मे­का­द­श­क­पा­ल­मृ­षभो दक्षिणा' इति । तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते 'यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधा­या­हु­ति­मा­हुतिं हुत्वा­भि­घा­र­ये­द्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राज­न्य­स्त­दै­न्द्रम्' इति । आग्ने­यै­न्द्र­पु­रो­डा­श­यो­र्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः । तत्रा­ग्ने­या­दि­च­रुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्ये­नि­धा­न­लि­ङ्गा­त्प्र­यो­ग­भेदे मध्ये निधा­ना­यो­गा­दे­त­या­न्ना­द्य­कामं याज­ये­दि­त्ये­क­व­च­नाच्च । स च तन्त्रप्रयोगो राज­सू­य­क्र­तु­बा­ह्या­या­म­न्ना­द्य­का­म­व­र्ण­त्र­य­क­र्तृ­का­या­मे­वा­वेष्टौ ज्ञेयो न तु क्रत्व­न्त­र्ग­ता­याम् । ननु किमत्र नियामकं क्रत्व­र्था­या­म­प्य­वेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् । न । वर्ण­त्र­य­सं­यु­क्तानां काम्या­या­मे­वा­ङ्ग­त­न्त्रै­क्य­सा­ध­कस्य मध्ये निधा­ना­दि­लि­ङ्गस्य सत्त्वादतो लिङ्गै­क­व­च­नाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणादेया, अन्यथा प्रयो­गै­क्या­यो­गात् । राज­मा­त्र­क­र्तृ­क­क्र­त्व­न्त­र्ग­तेष्टौ तु वर्ण­त्र­य­सं­यो­गा­भा­वा­न्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रै­क्य­सा­ध­का­भा­वा­द्द­क्षि­णा­भे­देन तन्त्रभेद इत्य­ङ्गा­ना­मा­वृ­त्ति­रेव चरुष्विति सूत्रार्थः । अत्र चैक­प्र­यो­ग­लि­ङ्गस्य क्रत्व­र्थे­ष्टा­व­सं­भवं काम्येष्टौ च संभवं वदताऽनेन सूत्रेण काम्येष्टेः क्रत्व­र्थे­ष्टि­वि­ल­क्ष­ण­त्वा­त्क्र­तु­प्र­क­र­णा­दु­त्कर्ष इति सूचितम् । स चोत्कर्षो युक्त एव, राज­मा­त्र­क­र्तृ­क­रा­ज­सू­य­क्रतौ वर्ण­त्र­य­क­र्तृ­के­ष्टे­र­न्त­र्भा­वा­यो­गा­दिति स्थितं, तथा मन­श्चि­दा­दी­ना­मु­त्कर्ष इति भावः ॥५०॥

एवं दृष्टान्तं विघटयति -
न सामान्यादिति ।
क्रत्व­र्थ­त्व­पु­रु­षा­र्थ­त्व­वै­ष­म्येऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्य­द­र्श­ना­दि­त्यर्थः ॥५१॥

किञ्च पूर्वो­त्त­र­ब्रा­ह्म­णयोः स्वत­न्त्र­वि­द्या­वि­धा­ना­त्त­न्म­ध्य­स्थ­स्यापि ब्राह्मणस्य स्वत­न्त्र­वि­द्या­वि­धि­प­र­त्व­मि­त्याह -
परेण चेति ।
चितेऽग्नौ लोकदृष्टिविधानं स्वत­न्त्र­मु­त्त­रत्र गम्यते पूर्वत्र मण्ड­ल­पु­रु­षो­पा­स्ति­स्त­त्सां­नि­ध्या­न्म­ध्येऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः ।

तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह -
भूयांसस्त्विति ॥५२॥