भाष्यरत्नप्रभाव्याख्या
वैषम्यनैर्घृण्याधिकरणम्
वैषम्यनैर्घृण्ये न ।
निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसङ्गत्या पूर्वपक्षयति -
पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोऽर्थः । पृथग्जनः पामरः, 'निरवद्यं निरञ्जनम्' इति श्रुतिः, 'न मे द्वेष्योऽस्ति न प्रियः' इति स्मृतिः । स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः ।
निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात् , न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
न च सापेक्षत्वे अनीश्वरत्वम् , सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् ।
ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह -
ईश्वरस्तु पर्जन्यवदिति ।
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यम् , अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः । यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः । न च कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यम् , अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् । अतोऽनवद्य ईश्वर इति भावः ॥३४॥
प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात् , तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः -
न कर्मेति ।
प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह -
सृष्ट्युत्तरेति ।
आद्या सृष्टिरित्युपलक्षणम् । आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् । परिहारः सुगमः ॥३५॥
प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति -
कथं पुनरिति ।
उपपत्तिसहितश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति -
उपपद्यत इति ।
हेतुं विनैव सर्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः ।
ननु सुखादिवैषम्ये ईश्वरोऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति -
न चेश्वर इत्यादिना ।
कस्तर्हि हेतुः, तत्राह -
रागादीति ।
रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः । तस्मादविद्यासहकारित्वेन क्लेशकर्मणामनादिप्रवाहोऽङ्गीकर्तव्य इति भावः ।
किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न सम्भवति, हेत्वभावात् । न च कर्म हेतुः, शरीरात्प्राक्कर्मासम्भवात् । तस्मात्कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह -
न चेति ।
सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणोऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह -
न च धारयिष्यतीति ।
'गृहस्थः सदृशीं भार्यामुपेयात्' इत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः । अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते । ज्ञानं विनान्तोऽपि नास्ति । नाप्यादिरुपलभ्यते, असत्त्वादेव । न च सम्प्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः । संसारस्यानादित्वेऽपि मिथ्यात्वात् 'एकमेवाद्वितीयम्' इत्यवधारणमुपपन्नम् । तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥३६॥