अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अत्त्रधिकरणम्

अत्ता­च­रा­च­र­ग्र­ह­णात् ।
'यस्य ब्रह्म­क्ष­त्रा­दि­ज­ग­दो­दनः, मृत्युः सर्व­प्रा­णि­मा­र­कोऽपि यस्यो­प­से­च­न­मो­द­न­सं­स्का­र­क­घृ­त­प्रायः', सोऽत्ता यत्र शुद्धे चिन्मा­त्रेऽ­भे­द­क­ल्प­नया वर्तते तच्छुद्धं ब्रह्म इत्था इत्थ­मी­श्व­र­स्या­प्य­धि­ष्ठा­न­भूतं को वेद । चित्त­शु­द्ध्या­द्यु­पायं विना कोऽपि न जानातीत्यर्थः ।'

संशयबीजमाह
विशेषेति ।
'स त्वमग्निं प्रब्रूहि' इत्यग्नेः, 'येयं प्रेते विचि­कित्सा' इति जीवस्य, 'अन्यत्र धर्मा­त्'इति ब्रह्मणः प्रश्नः । 'लोका­दि­मग्निं तमुवाच' इत्यग्नेः, 'हन्त त इदं प्रव­क्ष्यामि' इतीतरयोः प्रति­व­च­न­मु­प­ल­भ्यत इत्यर्थः ।

पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तम् , तदुपजीव्य पूर्वपक्षयति
किं तावदिति ।

अग्नि­प्र­क­र­ण­म­ती­त­मि­त्य­रु­चे­राह
जीवो वेति ।
पूर्वपक्षे जीवोपास्तिः, सिद्वान्ते निर्वि­शे­ष­ब्र­ह्म­ज्ञा­न­मिति फलभेदः ।

ओदनशब्दो भोग्यवाचीति पूर्वपक्षः । सिद्वान्तस्तु ब्रह्म­क्ष­त्र­श­ब्दै­रू­प­स्था­पि­त­का­र्य­मात्रे गौण ओदनशब्दः । गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनि­हि­त­गु­ण­ग्रा­हि­त्वात् । तथाच सर्वस्य विनाश्यत्वेन भाना­ल्लि­ङ्गा­दी­श्व­रोऽ­त्तेत्या ह
नैष दोष इति ।

तस्य संनिहितत्वादिति ।
'पिप्पलं स्वाद्वत्ति' इति भोगस्य पूर्वो­क्त­त्वा­दि­त्यर्थः ॥ ९ ॥ ॥ १० ॥