अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

भूमाधिकरणम्

भूमा । छान्दो­ग्य­मु­दा­ह­रति
इदमिति ।

नाल्पे सुखमस्ति भूमैव सुखम् , तस्मा­न्नि­र­ति­श­य­सु­खा­र्थिना भूमैव विचार्य इति नारदं प्रति सन­त्कु­मा­रे­णोक्ते सति नारदो ब्रूते
भूमानमिति ।

भूम्नो लक्ष­ण­म­द्वि­ती­य­त्व­माह
यत्रेति ।

भूमलक्षणं परि­च्छि­न्न­ल­क्ष­णोक्त्या स्फुटयति
अथेति ।

अत्र संशयबीजं प्रश्नपूर्वकमाह
कुत इत्यादिना ।
बहोर्भाव इति विग्रहे 'पृथ्वा­दिभ्य इमनिच्' इतीमन्प्रत्यये कृते 'बहोर्लोपो भू च बहोः' इति सूत्रेण बहोः पर­स्ये­म­नि­च्प्र­त्य­य­स्या­दे­रि­का­रस्य लोपः स्यात् , बहोः स्थाने भूरित्यादेशश्च स्यादि­त्यु­क्ते­र्भू­म­न्निति शब्दो निष्पन्नः । तस्य भावा­र्थ­के­म­न्प्र­त्य­या­न्त­त्वा­द्ब­हुत्वं वाच्यम् । तत्कि­न्ध­र्मि­क­मि­त्या­का­ङ्क्षायां संनि­हि­त­प्र­क­र­णस्थः प्राणो धर्मो भाति । वाक्योपक्रमस्थ आत्मापि स्वप्र­ति­पा­द­ना­पेक्षो धर्मित्वेन भातीति संनि­हि­त­व्य­व­हि­त­प्र­क­र­णाभ्यां संशय इत्यर्थः ।

पूर्व­मा­त्म­श­ब्दा­त्द्यु­भ्वा­द्या­य­तनं ब्रह्मे­त्यु­क्तम् , तदयुक्तम् , 'तरति शोक­मा­त्म­वित्' इत्य­ब्र­ह्म­ण्य­प्या­त्म­श­ब्द­प्र­यो­गा­दि­त्या­क्षे­प­स­ङ्गत्या पूर्वपक्ष्यति
प्राणो भूमेति ।
धर्म­ध­र्मि­णो­र­भे­दा­त्सा­मा­ना­धि­क­रण्यं दृष्टव्यम् । पूर्वो­त्त­र­प­क्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।

अत्राध्याये भूयः प्रश्नो­त्त­र­भे­दा­द­र्थ­भेदो दृश्यते । भूमा तु प्राणात्परं भूयःप्रश्नं विनै­वो­क्त­लि­ङ्गेन प्राणादभिन्न इत्याह
कस्मादित्यादिना ।
प्राणाद्भूय इति न दृश्यत इति पूर्वेण सम्बन्धः ।

ननु 'एष तु वा अतिवदति' इति तुशब्देन प्राण­प्र­क­र­ण­वि­च्छे­दान्न प्राणो भूमेत्यत आह
प्राणमेवेति ।
नामा­द्या­शा­न्ता­नु­पा­स्या­न­तीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद्तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात् , नाह­म­ति­वा­दी­त्य­प­ह्नवं न कुर्या­दि­त्यु­क्तम् । प्राणविदमेष इति परामृश्य सत्य­व­च­न­ध्या­न­म­न­न­श्र­द्धा­दि­ध­र्म­प­र­म्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः । तुशब्दो नामा­द्यु­पा­स­क­स्या­ति­वा­दि­त्व­नि­रा­सार्थ इत्यर्थः ।

भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति
कथं पुनरित्यादिना ।
प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः । 'गार्ह­पत्यो ह वा एषोऽपानो व्यानोऽ­न्वा­हा­र्य­प­चन आहवनीयः प्राणः' इति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठ­न्ती­त्यर्थः । देवो जीवः । अथ तदा स्वप्ना­द­र्श­न­काले सुख­श्र­व­णा­त्प्रा­णस्य सुख­त्व­म­वि­रु­द्ध­मि­त्य­न्वयः ।

आत्म­प­दे­नो­प­क्र­म­वि­रोधं परिहरति
प्राण एवेति ।

प्राण­स्या­त्मत्वं कथमित्याशङ्क्य श्रुत­त्वा­दि­त्याह
तथा हीति ।
सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुति­रि­त्य­न्वयः । अत आत्मत्वं प्राणेपि मुख्यमिति भावः ।

भूमरूपत्वं योजयति -
सर्वात्मत्वेति ।

सम्प्रसादशब्देन प्राणं लक्षयितुं मुख्यार्थं दर्शयति
सम्प्रसाद इति ।
स वा एष एत­स्मि­न्स­म्प्र­सादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च ।

तत्पदं सुषु­प्ति­वा­च­क­मि­त्याह
बृहदिति ।

वाच्या­र्थ­स­म्ब­न्धा­त्प्राणो लक्ष्य इत्याह
तस्यां चेति ।
अत्र सूत्र इत्यर्थः । भूमा प्राणा­द्भि­न्नोऽ­त्रा­ध्याये, तस्मा­दू­र्ध्व­मु­प­दि­ष्ट­त्वात् , नामा­दे­रू­र्ध्व­मु­प­दि­ष्ट­वा­गा­दि­व­दि­त्यर्थः ।

विप­क्ष­हे­तू­च्छेदं बाधकमाह
प्राण एव चेदिति ।
स्वस्यैव स्वस्मा­दू­र्ध्व­मु­प­दि­ष्ट­त्व­म­यु­क्तम् , नामादिष्वदृष्टं चेत्यर्थः ।

हेत्वसिद्धिं शङ्कते
नन्विहेति ।

प्रकृ­त­प्रा­ण­वि­त्प­रा­म­र्शक एषशब्दो न भवति, तस्य यच्छ­ब्द­प­र­त­न्त्र­त्वेन सत्य­वा­दि­वा­चि­त्वात् । अतः प्राणप्रकरणं विच्छिन्नमिति हेतु­सि­द्वि­रि­त्याह
अत्रोच्यत इति ।
सत्ये­ना­ति­वा­दित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः ।

य एष प्राण­वि­द­ति­व­द­ती­त्य­नूद्य स सत्यं वदेदिति विधानान्न प्राण­प्र­क­र­ण­वि­च्छेद इति दृष्टान्तेन शङ्कते
नन्विति ।

सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् । सत्यवचने त्वबा­धि­ता­र्थ­स­म्ब­न्धा­ल्ला­क्ष­णिक इति नात्र लक्ष्य­व­च­न­वि­धि­रि­त्याह
नेति ब्रूम इति ।

किञ्च सत्येन ब्रह्म­णा­ति­व­द­तीति तृतीयाश्रुत्या ब्रह्म­क­र­ण­क­म­ति­वा­दित्वं श्रुतम् , तस्य प्रकरणाद्बाधो न युक्त इत्याह
श्रुत्या हीत्यादिना ।

अत्रेति ।
सत्यवाक्य इत्यर्थः ।

एवं सत्येनेति श्रुत्या प्रकरणं बाध्य­मि­त्युक्त्वा तुशब्देनापि बाध्यमाह
प्रकृतेति ।

विजि­ज्ञा­स्य­त्व­लि­ङ्गाच्च पूर्वो­क्ता­द्भि­न्न­मि­त्याह
सत्यं त्वेवेति ।

प्रकरणविच्छेदे दृष्टान्तमाह
तस्मादिति ।
श्रुति­लि­ङ्ग­ब­ला­दे­त­त्सत्यं प्रकृ­ता­त्प्रा­णा­त्प्रा­धा­न्येन भिन्नं द्रष्ट­व्य­मि­त्यर्थः ।

एवमतिवादित्वस्य ब्रह्म­स­म्ब­न्धोक्त्या प्राणलिङ्गत्वं निरस्तम् । यत्तु प्रश्नं विनो­क्त­त्व­लि­ङ्गा­द्भूमा प्राण इति, तन्न, तस्या­प्र­यो­ज­क­त्वा­दि­त्याह
न चेति ।
प्रश्न­भे­दा­द­र्थ­भेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् । प्रश्नं विनो­क्त­चा­तु­र्वे­दस्य प्रकृ­तै­क­वे­दा­द्भि­न्न­त्व­द­र्श­ना­च्चे­त्यर्थः ।

तत्र यथा चतुर्वेदत्वस्य प्रकृ­ता­स­म्ब­न्धा­द­र्थ­भेदः, एवमिहापीति स्फुटयति
तत्रेत्यदिना ।

सत्यपदेन प्राणो­क्ति­रि­त्यत आह
तत्र सत्यमिति ।

विज्ञानं निदिध्यासनम् । आदि­प­दा­न्म­न­न­श्र­द्धा­श्र­व­ण­म­नः­शु­द्धि­नि­ष्टा­त­द्धे­तु­क­र्माणि गृह्यन्ते । इमान्यपि श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि । एवं श्रुतिलिङ्गैः प्राण­स्या­वा­न्त­र­प्र­क­रणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूम­प­दो­क्त­ब­हु­त्व­ध­र्मी­त्याह
तत्र यदिति ।

किञ्च 'संनि­हि­ता­दपि व्यवहितं साकाङ्क्षं बलीयः' इति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह
एवं चेति ।

किञ्च शोकस्य पार­मि­त्यु­प­क्रम्य तमसः पार­मि­त्यु­प­सं­हा­रात् , शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते । तन्नि­व­र्त­क­ज्ञा­न­ग­म्य­त्व­लि­ङ्गा­दात्मा ब्रह्मेत्याह
न चान्यत्रेति ।
ब्राह्म­ण­मा­त्मा­य­त्तत्वं प्राणस्य वदतीति सम्बन्धः ।

नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते
प्रकरणान्त इति ।

तच्छब्देन भूमा­नु­क­र्षा­न्मै­व­मि­त्याह
नेति ॥ ८ ॥

भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह
धर्मेति ।
सूत्रम् ।

यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति
योऽप्य­सा­वि­त्या­दिना ।
सति बुद्ध्या­द्यु­पा­धा­वा­त्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्य­स­ङ्ग­त्व­ज्ञा­नार्थं प्रश्नोपनिषदि 'न शृणोति न पश्यति' इति परमात्मानं प्रकृत्योक्तम् । तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य । यतः श्रुत्य­न्त­र­मा­त्मन एव सुखत्वमाह तस्मादित्यर्थः । आमयो नाशादिदोषः तत्सहितं सामयम् । आर्तं नश्वरम् । 'स एवाधस्तात्स उप­रि­ष्टात्' इति सर्वगतत्वम् , 'स एवेदं सर्वम्' इति सर्वात्मत्वं च श्रुतम् , तस्मा­द्भू­मा­ध्यायो निर्गुणे समन्वित इति सिद्धम् ॥ ९ ॥