अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तेजोऽधिकरणम्

तेजोऽ­त­स्त­था­ह्याह ।

'तत्ते­जोऽ­सृ­जत' इति 'वायो­रग्निः' इति च श्रुत्यो­र्वि­रो­धोऽस्ति न वेति सन्देहे सामा­न्या­त्सा­मा­न्यो­त्प­त्त्य­स­म्भ­वेऽपि ब्रह्मवाय्वोः सामा­न्य­यो­स्ते­जो­रू­प­वि­शे­षो­पा­दा­न­त्व­स­म्भ­वा­त्तु­ल्य­ब­ल­त­यास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्व­त्रा­ध्या­य­स­मा­प्ते­रे­क­वा­क्य­त्वा­स­म्भ­वा­स­म्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरो­धा­द­प्रा­माण्यं फलम् , सिद्धान्ते प्रामा­ण्य­मि­त्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विव­र्त­त्वा­त्क­ल्पि­तस्य वायो­स्ते­जः­क­ल्प­ना­धि­ष्ठा­न­त्वा­यो­गा­द्ब्र­ह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मै­वो­पा­दा­न­मि­त्यर्थे श्रुतीनां भूयस्त्वाच्च तद­नु­रो­धा­द्वा­यो­रिति क्रमार्था पञ्चमीत्यविरोध इत्ये­क­दे­शि­सि­द्धान्तं प्रापयति -
प्राप्तं ताव­द्ब्र­ह्म­यो­निकं तेज इत्यादिना ।
श्रुतीनां विरो­ध­मा­त्रो­प­न्या­सेन पूर्वपक्षः, अप­सि­द्धा­न्ते­ना­वि­रो­धा­त्ता­व­दे­क­दे­शि­पक्ष इति ज्ञेयम् । तदुभयमपि मुख्य­सि­द्धा­न्ता­पे­क्षया पूर्वपक्षत्वेन व्यवह्रियते ।

सिद्धान्तयति -
एवं प्राप्त इति ।

कदर्थिता ।
बाधितार्थेति यावत् । वायो­स्ते­जः­प्र­कृ­तित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पि­त­स्यो­पा­दा­न­त्वा­स­म्भवः, अधि­ष्ठा­न­त्वा­स­म्भ­वेऽपि मृदा­दि­व­त्प­रि­णा­मि­त्व­स­म्भ­वात् , स्वतस्तु ब्रह्म­ण­श्छा­न्दोग्ये स्रष्टृ­त्व­मात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षण­लि­ङ्गा­दु­पा­दा­न­त्व­सिद्धिः लिङ्गा­च्छ्रु­ते­र्ब­ली­य­स्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायो­र्ब्र­ह्मा­न­न्य­त्वा­द्वा­यु­ज­स्यापि तेजसो ब्रह्म­प्र­कृ­ति­क­त्व­म­वि­रु­द्ध­मिति सिद्धा­न्त­ग्र­न्था­शयः ।

इहाधिकारादिति ।
वायोरग्निः सम्भूत इति वाक्ये सम्ब­न्धा­दि­त्यर्थः । तदधिकारे सम्भूत्यधिकारे ।

निर­पे­क्ष­का­र­क­वि­भ­क्ते­रू­प­प­द­सा­पे­क्ष­वि­भ­क्त्य­पे­क्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह -
अपि चेति ।
ऊर्ध्व­म­न­न्त­र­मिति वोपपदं विना पञ्च­मी­मा­त्रा­त्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृ­त्या­ख्या­पा­दा­न­का­रकं तु निर­पे­क्ष­प­ञ्चम्या भाति । विशेषतोऽत्र प्रक­र­णा­द­पा­दा­ना­र्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।

पार­म्प­र्य­ज­त्व­मे­वाह -
यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पार­म्प­र्य­ज­मि­त्यर्थः । दधिसंसृष्टं कठि­न­क्षी­र­मा­मिक्षा ।

ब्रह्मणे वायुभावे मानमाह -
दर्शयति चेति ।

पार­म्प­र्य­ज­स्यापि तज्जत्वव्यपदेशे स्मृतिमाह -
तथा चेति ।

अन्तःकरणादिभ्यो जाय­मा­न­बु­द्ध्या­दीनां मत्त एवेत्यवधारणं कथ­मि­त्या­श­ङ्क्याह -
यद्यपीत्यादिना ।
प्रनाड्या पर­म्प­र­ये­श्व­र­वं­श्य­त्वा­त्त­ज्ज­त्वा­त्प­र­म­का­र­णा­न्त­र­नि­रा­सा­र्थ­म­व­धा­रणं युक्तमिति शेषः ।

एतत्पदार्थमाह -
तासामिति ।
'तज्ज­लान्' इत्या­द्यु­क्त­श्रु­तीनां साक्षा­त्प्र­नाड्या वा ब्रह्म­ज­त्व­मा­त्रे­णो­प­प­त्ते­रि­त्यर्थः । अक्रमश्रुतीनां बल­व­त्क्र­म­श्रु­त्य­नु­सा­रे­णे­क­वा­क्य­त्वा­द्वि­य­द्वा­यु­द्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥