भाष्यरत्नप्रभाव्याख्या
तेजोऽधिकरणम्
तेजोऽतस्तथाह्याह ।
'तत्तेजोऽसृजत' इति 'वायोरग्निः' इति च श्रुत्योर्विरोधोऽस्ति न वेति सन्देहे सामान्यात्सामान्योत्पत्त्यसम्भवेऽपि ब्रह्मवाय्वोः सामान्ययोस्तेजोरूपविशेषोपादानत्वसम्भवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः । सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासम्भवासम्भवौ संशयबीजम् । पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलम् , सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् । एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति -
प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना ।
श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेनाविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् । तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते ।
सिद्धान्तयति -
एवं प्राप्त इति ।
कदर्थिता ।
बाधितार्थेति यावत् । वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पितस्योपादानत्वासम्भवः, अधिष्ठानत्वासम्भवेऽपि मृदादिवत्परिणामित्वसम्भवात् , स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षणलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः ।
इहाधिकारादिति ।
वायोरग्निः सम्भूत इति वाक्ये सम्बन्धादित्यर्थः । तदधिकारे सम्भूत्यधिकारे ।
निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह -
अपि चेति ।
ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति । विशेषतोऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।
पारम्पर्यजत्वमेवाह -
यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पारम्पर्यजमित्यर्थः । दधिसंसृष्टं कठिनक्षीरमामिक्षा ।
ब्रह्मणे वायुभावे मानमाह -
दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह -
तथा चेति ।
अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह -
यद्यपीत्यादिना ।
प्रनाड्या परम्परयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः ।
एतत्पदार्थमाह -
तासामिति ।
'तज्जलान्' इत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः । अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥