अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

द्वितीयाध्याये चतुर्थः पादः

पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदु­प­क­र­णा­ना­मि­न्द्रि­या­णा­मु­त्पत्तिं साधयति -
तथा प्राणाः ।

भूत­भो­क्तृ­वि­चा­रा­न­न्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः सङ्गतिमाह -
वियदादीति ।

तमेव विप्रतिषेधमाह -
तत्रेत्यादिना ।

यद्यपि प्राणा­ना­म­नु­त्पत्तौ एक­वि­ज्ञा­न­प्र­ति­ज्ञा­नु­प­प­त्ते­र्वि­य­द­धि­क­र­ण­न्या­या­त्ते­षा­मु­त्पत्तिः सिध्यति तथापि प्रलये प्राण­स­द्भा­व­श्रु­ते­र्ग­ति­क­थ­ना­र्थ­मे­त­द­धि­क­र­ण­मि­त्य­पौ­न­रु­क्त्यम् । अत्र प्राणा विषयाः । ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्य­प्रा­मा­ण्य­मिति पूर्वपक्षफलम् , तत्र गौणवादी समाधानमाह -
अथवेति ।
प्राणानां प्रलये सद्भा­व­श्रु­ते­र्नि­र­व­का­श­त्वेन बली­य­स्त्वा­दु­त्प­त्ति­श्रु­ति­र्जी­वो­त्प­त्ति­श्रु­ति­व­द्गौ­णी­त्य­वि­रोध इत्यर्थः । अप्र­मा­ण­प­क्ष­व­द्गौ­ण­प­क्षोऽपि मुख्य­सि­द्धा­न्तिनः पूर्वपक्ष एवेति ज्ञाप­ना­र्थ­म­थ­वे­त्यु­क्तम् ।

मुख्य­सि­द्धा­न्त्याह -
अत इति ।