भाष्यरत्नप्रभाव्याख्या
मुग्धाधिकरणम्
अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति -
मुग्धेऽर्धसंपत्तिः परिशेषात् ।
मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति । अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सोऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह -
तिस्रस्तावदिति ।
पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः ।
परिशेषं दर्शयन् सिद्धान्तयति -
न तावदित्यादिना ।
जाग्रदपि जागरावस्थोऽपीत्यर्थः ।
ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति -
नेत्यादिना ।
मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह -
नापीत्यादिना ।
आलभन्ते स्पृशन्ति । दिष्टं मरणम् ।
सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्येऽपि बहुवैलक्षण्याद्भेद इत्याह -
नेति ।
लक्षणभेदमुक्त्वा निमित्तभेदमाह -
निमित्तेति ।
प्रत्यभिज्ञाप्यसिद्धेत्याह -
न चेति ।
उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतोऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः ।
अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते -
कथमिति ।
यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्यभावाभिप्रायम् । उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात्कृत्स्नसंपत्तिरेवेत्यर्थः ।
सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह -
जीवे हीति ।
ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति -
न ब्रूम इति ।
मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः ।
इतोऽपि सुषुप्तिवैषम्यमित्याह -
द्वारं चेति ।
अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह -
प्रसिद्धा चेति ।
नायुर्वेदो वैद्यशास्त्रम् ।
प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह -
अर्धेति ।
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः ॥१०॥