अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

तद्भूताधिकरणम्

तद्भूतस्य तु ।
उत्त­मा­श्र­मा­त्पू­र्वा­श्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्या­हे­तु­र­ना­श्र­मि­क­र्म­व­दिति संगतिः, पूर्वपक्षफलं चैतत् । सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् । रागा­दि­प्रा­ब­ल्या­त्प्र­च्यु­ति­नि­षे­धाच्च प्रच्युतिः प्रामाणिकी न वेति संशयः ।

सिद्धान्तसूत्रे नियमं व्याचष्टे -
तथा हीति ।
अत्यन्तमिति नैष्ठिकत्वनियमः । अर­ण्य­मि­त्ये­का­न्तो­प­ल­क्षितं पारिव्राज्यं गृह्यते । तदि­या­द्ग­च्छे­दिति पदं शास्त्र­मा­र्ग­स्त­त­स्त­स्मा­त्पा­रि­व्रा­ज्यान्न पुनरेयान्न प्रच्यवेदिति उनि­ष­द्र­ह­स्य­मि­त्यर्थः ।

अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे -
यथा चेति ।

शिष्टा­चा­रा­भा­व­माह -
न चैवमिति ।
'चण्डालाः प्रत्य­व­सिताः' इति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः ॥४०॥