अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

मुक्तिफलाधिकरणम्

असति प्रार­ब्ध­क­र्म­प्र­ति­बन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचि­त­पा­प­प्र­ति­ब­न्धस्य निरस्तत्वात् । सति तु भोगेन तन्नि­रा­सा­द­मु­त्रेति विद्याया ऐहि­का­मु­ष्मि­क­त्व­वि­शे­ष­नि­यम उक्त­स्त­द्व­त्फ­लेऽपि मोक्षे कश्चि­दु­त्क­र्षा­दि­वि­शेषः स्यादित्यत आह -
एवं मुक्ति­फ­ला­नि­य­म­स्त­द­व­स्था­व­धृ­ते­स्त­द­व­स्था­व­धृतेः ।

मुक्तिरत्र विषयः । तस्यां विद्या­व­द्वि­शे­ष­नि­य­मोऽस्ति न वेति फल­स्यो­भ­य­था­सं­भ­वा­त्सं­शये पूर्वपक्षमाह -
यथेति ।
मुक्तिः सविशेषा, फल­त्वा­द्वि­द्या­व­दतः कर्मसाध्या मुक्तिरिति फलम् । सिद्धान्ते तु निर्वि­शे­ष­त्वा­व­धा­र­ण­श्रु­ति­बा­धि­त­म­नु­मा­न­मतो ज्ञानै­क­व्यङ्ग्या मुक्तिरिति फलम् ।

किञ्च श्रव­णा­दि­ता­र­त­म्या­द्वि­द्यायां कञ्चि­द­ति­श­य­म­ङ्गी­कृत्य विद्या­ल­भ्य­मुक्तौ नातिशय इत्याह -
अपि च विद्यासाधनमिति ।

ननु ब्रह्मणो नित्य­सि­द्ध­त्वा­द­वि­द्या­नि­वृ­त्ते­श्चा­न्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह -
तद्धीति ।
विद्य­या­भि­व्य­क्त­त्वेन ब्रह्मानन्द एव मुख्य­फ­ल­म­भि­व्य­क्ति­र­वि­द्या­नि­वृ­त्ति­रा­न­न्द­स्व­रू­प­स्फू­र्ति­प्र­ति­ब­न्ध­का­भा­व­तया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः । अन्ये तु सा ब्रह्मा­न­न्ये­त्याहुः । न च साध्य­त्वा­नु­प­प­त्ते­स्तत्र विद्या­वै­य­र्थ्य­मिति वाच्यम् । यदभावे यद­भा­व­स्त­त्त­त्सा­ध्य­मिति ज्ञानात्सर्वो लोकः प्रवर्तते । यथा च विद्याया अभावे ब्रह्म­स्व­रू­प­मु­क्ते­र­भा­वोऽ­न­र्थ­रूपा अविद्यैवास्ति । अस्या अविद्याया एव मुक्ति­र्ना­स्ती­ति­व्य­व­हा­र­वि­ष­य­त्वेन मुक्त्य­भा­व­त्वात् । तथा च विद्यां विना मुक्ति­र्ना­स्तीति निश्च­या­द्वि­द्या­मु­पा­दत्ते । विद्योदये च स्वतः­सि­द्ध­नि­त्य­नि­वृ­त्ता­न­र्थ­स्व­प्र­का­श­ब्र­ह्मा­न­न्दा­त्म­न­व­ति­ष्ठत इत्यनवद्यम् ।

संप्रति विद्या­या­म­ति­श­या­ङ्गी­कार त्यजति -
न चेति ।
एकरूपे विषये प्रमायां तार­त­म्या­नु­प­प­त्ते­रि­त्यर्थः ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह -
तस्मादिति ।
सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तार­त­म्य­मि­त्यर्थः ।

तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह -
नत्विति ।
वाय्वा­दि­प्र­ति­ब­न्धा­द्दि­पो­त्प­त्ति­वि­ल­म्बेऽ­प्यु­त्पन्ने तमो­नि­वृ­त्ति­वि­ल­म्बा­द­र्श­ना­त्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।

किञ्च कर्म­णा­मु­पा­स­नानां च गुणभेदेन तार­त­म्या­त्फ­ल­ता­र­तम्यं युक्तम् । निर्गु­ण­वि­द्या­या­स्त्वे­क­रू­प­त्वा­त्त­त्फ­लै­क­रू­प्य­मि­त्याह -
विद्या­भे­दे­त्या­दिना ।
स्मृतौ कस्य­चि­न्नि­र्गु­ण­विद इत्यर्थः । तस्मा­द्वि­द्या­स­म­का­लैव मुक्तिरिति सिद्धम् ॥५२॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­गो­वि­न्दा­न­न्द­भ­ग­व­त्कृतौ शारी­र­क­व्या­ख्याया भाष्य­र­त्न­प्र­भा­टी­कायां तृती­य­स्या­ध्या­यस्य चतुर्थः पादः ॥४॥
॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्त­र­ङ्ग­ब­हि­र­ङ्ग­सा­ध­न­वि­चा­रा­ख्य­श्च­तुर्थः पादः ॥
॥ इति श्रीम­द्ब्र­ह्म­सू­त्र­शा­ङ्क­र­भाष्ये साध­ना­ख्य­स्तृ­ती­यो­ध्यायः ॥