अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

इतरासंश्लेषाधिकरणम्

इतरस्यापि तु ।
अतिदेशत्वान्न सङ्ग­त्या­द्य­पेक्षा ।

ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्सन्देहे ज्ञानं तु न पुण्यनाशकं शास्त्री­य­त्वा­त्पु­ण्य­व­दि­त्य­धि­का­श­ङ्का­मु­क्त्वा­ति­देशं व्याचष्टे -
धर्म­स्ये­त्या­दिना ।
ज्ञानं पुण्यनाशकं समू­ल­वि­द्या­घा­ति­त्वा­दिति न्यायो­पे­ता­ग­म­बा­धि­त­म­नु­मा­न­मिति भावः ।

ननु क्षीयन्ते चेत्य­वि­शे­ष­श्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशे­ष­श्रु­ते­रि­त्यत आह -
यत्रापि केवल इति ।

पाप­पु­ण्य­क्ष­य­प­रा­धि­क­र­ण­द्व­यस्य फलमाह -
पाते त्विति ॥१४॥