अद्वैतशारदा

भाष्यरत्नप्रभाव्याख्या

अर्चिराद्यधिकरणम्

ये चेत्य­वि­शे­ष­श्रु­ति­र­श्रु­त­ग­ति­वि­द्या­वि­ष­येति मार्गभेदं शङ्कते -
स्यादेतदिति ।
एकस्यैव मार्ग­स्या­ने­का­न्य­ग्न्या­दीनि विशे­ष­णा­नी­त्युक्ते लाघवान्न मार्गभेदः । प्रत्य­भि­ज्ञा­ना­च्चेति समाध्यर्थः ।

गन्तव्यैक्यं विवृणोति -
तथा हीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संव­त्स­रा­न्व­सन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टि­र्व्या­प्तिस्तां लभत इत्यर्थः ।

एवं गन्त­व्यै­क्य­व­त्प्र­त्य­भि­ज्ञया मार्गै­क्य­नि­श्च­या­त्प्र­क­र­ण­भे­दोऽ­प्र­यो­जक इत्युक्तं सम्प्र­त्ये­व­का­र­त्व­रा­व­च­न­यो­र्ग­ति­माह -
यत्त्वित्यादिना ।
रात्रौ स्पष्ट­र­श्म्य­भा­वा­द्वि­दुषो रश्म्य­यो­ग­प्राप्तौ तन्नि­रा­सा­र्थ­मे­व­कारो नान्य­व्या­वृ­त्त्यर्थः । यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरा­व­च­नो­प­प­त्ति­रि­त्यर्थः ।

मार्गैक्ये लिङ्गमाह -
अपि चेति ।
शुभ­मा­र्ग­बा­हुल्ये तृती­य­स्था­नो­क्तिर्न स्यादिति भावः ।

उत्त­र­मा­र्गै­क्येऽ­प्य­र्चि­रा­दि­नेति विशेषणे को हेतुरित्यत आह -
भूयांसीति ॥१॥